Harivarasanam (Hariharaatmajaashtakam) – श्री हरिहरात्मजाष्टकम् (हरिवरासनं)

P Madhav Kumar

 हरिवरासनं विश्वमोहनं

हरिदधीश्वरं आराध्यपादुकम् ।
अरिविमर्दनं नित्यनर्तनं
हरिहरात्मजं देवमाश्रये ॥ १ ॥

शरणकीर्तनं शक्तमानसं
भरणलोलुपं नर्तनालसम् ।
अरुणभासुरं भूतनायकं
हरिहरात्मजं देवमाश्रये ॥ २ ॥

प्रणयसत्यकं प्राणनायकं
प्रणतकल्पकं सुप्रभाञ्चितम् ।
प्रणवमन्दिरं कीर्तनप्रियं
हरिहरात्मजं देवमाश्रये ॥ ३ ॥

तुरगवाहनं सुन्दराननं
वरगदायुधं वेदवर्णितम् ।
गुरुकृपाकरं कीर्तनप्रियं
हरिहरात्मजं देवमाश्रये ॥ ४ ॥

त्रिभुवनार्चितं देवतात्मकं
त्रिनयनप्रभुं दिव्यदेशिकम् ।
त्रिदशपूजितं चिन्तितप्रदं
हरिहरात्मजं देवमाश्रये ॥ ५ ॥

भवभयापहं भावुकावहं
भुवनमोहनं भूतिभूषणम् ।
धवलवाहनं दिव्यवारणं
हरिहरात्मजं देवमाश्रये ॥ ६ ॥

कलमृदुस्मितं सुन्दराननं
कलभकोमलं गात्रमोहनम् ।
कलभकेसरी-वाजिवाहनं
हरिहरात्मजं देवमाश्रये ॥ ७ ॥

श्रितजनप्रियं चिन्तितप्रदं
श्रुतिविभूषणं साधुजीवनम् ।
श्रुतिमनोहरं गीतलालसं
हरिहरात्मजं देवमाश्रये ॥ ८ ॥

शरणं अय्यप्पा स्वामि शरणं अय्यप्पा ।
शरणं अय्यप्पा स्वामि शरणं अय्यप्पा ।

॥ इति श्री हरिहरात्मजाष्टकं सम्पूर्णम् ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!
Follow Me Chat