Sri Harihara Putra Ashtakam – श्री हरिहरपुत्राष्टकम्

P Madhav Kumar

 हरिकलभतुरङ्गतुङ्गवाहनं

हरिमणिमोहनहारचारुदेहम् ।
हरिदधीपनतं गिरीन्द्रगेहं
हरिहरपुत्रमुदारमाश्रयामि ॥ १ ॥

निरुपम परमात्मनित्यबोधं
गुरुवरमद्भुतमादिभूतनाथम् ।
सुरुचिरतरदिव्यनृत्तगीतं
हरिहरपुत्रमुदारमाश्रयामि ॥ २ ॥

अगणितफलदानलोलशीलं
नगनिलयं निगमागमादिमूलम् ।
अखिलभुवनपालकं विशालं
हरिहरपुत्रमुदारमाश्रयामि ॥ ३ ॥

घनरसकलभाभिरम्यगात्रं
कनककरोज्वल कमनीयवेत्रम् ।
अनघसनकतापसैकमित्रं
हरिहरपुत्रमुदारमाश्रयामि ॥ ४ ॥

सुकृतसुमनसां सतां शरण्यं
सकृदुपसेवकसाधुलोकवर्ण्यम् ।
सकलभुवनपालकं वरेण्यं
हरिहरपुत्रमुदारमाश्रयामि ॥ ५ ॥

विजयकर विभूतिवेत्रहस्तं
विजयकरं विविधायुध प्रशस्तम् ।
विजित मनसिजं चराचरस्थं
हरिहरपुत्रमुदारमाश्रयेऽहम् ॥ ६ ॥

सकलविषयमहारुजापहारं
जगदुदयस्थितिनाशहेतुभूतम् ।
अगनगमृगयामहाविनोदं
हरिहरपुत्रमुदारमाश्रयेऽहम् ॥ ७ ॥

त्रिभुवनशरणं दयापयोधिं
प्रभुममराभरणं रिपुप्रमाथिम् ।
अभयवरकरोज्ज्वलत्समाधिं
हरिहरपुत्रमुदारमाश्रयेऽहम् ॥ ८ ॥

जय जय मणिकण्ठ वेत्रदण्ड
जय करुणाकर पूर्णचन्द्रतुण्ड ।
जय जय जगदीश शासिताण्ड
जय रिपुखण्डवखण्ड चारुखण्ड ॥ ९ ॥

इति श्री हरिहरपुत्राष्टकम् ।

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!
Follow Me Chat