Sri Vinayaka Stuti – श्री विनायक स्तुतिः

P Madhav Kumar

 सनकादय ऊचुः ।

नमो विनायकायैव कश्यपप्रियसूनवे ।
अदितेर्जठरोत्पन्नब्रह्मचारिन्नमोऽस्तु ते ॥ १ ॥

गणेशाय सदा मायाधार चैतद्विवर्जित ।
भक्त्यधीनाय वै तुभ्यं हेरम्बाय नमो नमः ॥ २ ॥

त्वं ब्रह्म शाश्वतं देव ब्रह्मणां पतिरोजसा ।
योगायोगादिभेदेन क्रीडसे नात्र संशयः ॥ ३ ॥

आदिमध्यान्तरूपस्त्वं प्रकृतिः पुरुषस्तथा ।
नादानादौ च सूक्ष्मस्त्वं स्थूलरूपो भवान् प्रभो ॥ ४ ॥

सुरासुरमयः साक्षान्नरनागस्वरूपधृक् ।
जलस्थलादिभेदेन शोभसे त्वं गजानन ॥ ५ ॥

सर्वेभ्यो वर्जितस्त्वं वै मायाहीनस्वरूपधृक् ।
मायामायिकरूपं त्वां को जानाति गतिं पराम् ॥ ६ ॥

कथं स्तुमो गणाधीशं योगाकारमयं सदा ।
वेदा न शम्भुमुख्याश्च शक्ताः स्तोतुं कदाचन ॥ ७ ॥

वयं धन्या वयं धन्या येन प्रत्यक्षतां गतः ।
अस्माकं योगिनां ढुण्ढे कुलदेवस्त्वमञ्जसा ॥ ८ ॥

इति श्रीमन्मुद्गले महापुराणे सनकादयकृता श्री विनायक स्तुतिः ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!
Follow Me Chat