Read in: తెలుగు | ಕನ್ನಡ | தமிழ் | देवनागरी | English | മലയാളം | ગુજરાતી | मराठी |

Chatushashti (64) Bhairava Namavali Stotram – चतुःषष्टि भैरव नामावलि स्तोत्रम्

P Madhav Kumar
॥ ओं ह्रीम् ॥

असिताङ्गो विशालाक्षो मार्तण्डो मोदकप्रियः ।
स्वच्छन्दो विघ्नसन्तुष्टः खेचरः सचराचरः ॥ १ ॥

रुरुश्च क्रोडदंष्ट्रश्च तथैव च जटाधरः ।
विश्वरूपो विरूपाक्षो नानारूपधरः परः ॥ २ ॥

वज्रहस्तो महाकायश्चण्डश्च प्रलयान्तकः ।
भूमिकम्पो नीलकण्ठो विष्णुश्च कुलपालकः ॥ ३ ॥

मुण्डमालः कामपालः क्रोधो वै पिङ्गलेक्षणः ।
उग्ररूपो धरापालः कुटिलो मन्त्रनायकः ॥ ४ ॥

रुद्रः पितामहाख्यश्च व्युन्मत्तो बटुनायकः ।
शङ्करो भूतवेतालस्त्रिनेत्रस्त्रिपुरान्तकः ॥ ५ ॥

वरदः पर्वतावासः कपालः शशिभूषणः ।
हस्तिचर्माम्बरधरो योगीशो ब्रह्मराक्षसः ॥ ६ ॥

सर्वज्ञः सर्वदेवेशः सर्वभूतहृदि स्थितः ।
भीषणाख्यो भयहरः सर्वज्ञाख्यस्तथैव च ॥ ७ ॥

कालाग्निश्च महारौद्रौ दक्षिणो मुखरोऽस्थिरः ।
संहारश्चातिरिक्ताङ्ग कालाग्निश्च प्रियङ्करः ॥ ८ ॥

घोरनादो विशालाङ्गो योगीशो दक्षसंस्थितः ।
चतुःषष्टीरूपधृग्देवो भैरवः स सदाऽवतु ॥ ९ ॥

॥ ह्रीं ओम् ॥

इति श्रीरुद्रयामलतन्त्रे चतुःषष्टि भैरव नामावलि स्तोत्रम् ।

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!
📢 Follow