श्रीगणेशाय नमः ॥
कत्यक्षीणि करोटयः कति कति द्वीपिद्विपानां त्वचः
काकोलाः कति पन्नगाः कति सुधाधाम्नश्च खण्डा कति ।
किं च त्वं च कति त्रिलोकजननित्वद्वारिपूरोदरे
मज्जज्जन्तुकदम्बकं समुदयत्येकैकमादाय यत् ॥ १॥
देवि त्वत्पुलिनाङ्गणे स्थितिजुषां निर्मानिनां ज्ञानिनां
स्वल्पाहारनिबद्धशुद्धवपुषां तार्णं गृहं श्रेयसे ।
नान्यत्र क्षितिमण्डलेश्वरशतैः संरक्षितो भूपतेः
प्रासादो ललनागणैरधिगतो भोगीन्द्रभोगोन्नतः ॥ २॥
तत्तत्तीर्थगतैः कदर्थनशतैः किं तैरनर्थाश्रितै-
र्ज्योतिष्टोममुखैः किमीशविमुखैर्यज्ञैरवज्ञाद्दतै ।
सूते केशववासवादिविबुधागाराभिरामां श्रियं गङ्गे
देवि भवत्तटे यदि कुटीवासः प्रयासं विना ॥ ३॥
गङ्गातीरमुपेत्य शीतलशिलामालम्ब्य हेमाचलीं
यैराकर्णि कुतूहलाकुलतया कल्लोलकोलाहलः ।
ते शृण्वन्ति सुपर्वपर्वतशिलासिंहासनाध्यासनाः
सङ्गीतागमशुद्धसिद्धरमणीमंजीरधीरध्वनिम् ॥ ४॥
दूरं गच्छ सकच्छगं च भवतो नालोकयामो
मुखं रे पाराक वराक साकमितरैर्नाकप्रदैर्गम्यताम् ।
सद्यः प्रोद्यतमन्दमारुतरजःप्राप्ता कपोलस्थले
गङ्गाम्भःकणिका विमुक्तगणिकासङ्गाय सम्भाव्यते ॥ ५॥
विष्णोः सङ्गतिकारिणी हरजटाजूटाटवीचारिणी
प्रायश्चित्तनिवारिणी जलकणैः पुण्यौधविस्तारिणी ।
भूभृत्कन्दरदारिणी निजजले मज्जज्जनोत्तारिणी
श्रेयः स्वर्गविहारिणी विजयते गङ्गा मनोहारिणी ॥ ६॥
वाचालं विकलं खलं श्रितमलं कामाकुलं व्याकुलं
चाण्डालं तरलं निपीतगरलं दोषाविलं चाखिलम् ।
कुम्भीपाकगतं तमन्तककरादाकृष्य कस्तारयेन्-
मातर्जह्नुनरेन्द्रनन्दिनि तव स्वल्पोदबिन्दुं विना ॥ ७॥
श्लेषमश्लेषणयानलेऽमृतबिले शाकाकुले व्याकुले
कण्ठे घर्घरघोषनादमलिने काये च सम्मीलति ।
यां ध्यायन्न्पि भारभङ्गुरतरां प्राप्नोति मुक्तिं नरः
स्नातुश्वेतसि जाह्न्वी निवसतां संसारसन्तापहृत् ॥ ८॥
इति श्रीमत्कालिदासविरचितं गङ्गाष्टकस्तोत्रं सम्पूर्णम् ॥