देवर्षय ऊचुः ।
विदेहरूपं भवबन्धहारं
सदा स्वनिष्ठं स्वसुखप्रदं तम् ।
अमेयसाङ्ख्येन च लभ्यमीशं
गजाननं भक्तियुता भजामः ॥ १ ॥
मुनीन्द्रवन्द्यं विधिबोधहीनं
सुबुद्धिदं बुद्धिधरं प्रशान्तम् ।
विकालहीनं सकलान्तगं वै
गजाननं भक्तियुता भजामः ॥ २ ॥
अमेयरूपं हृदि संस्थितं तं
ब्रह्माहमेकं भ्रमनाशकारम् ।
अनादिमध्यान्तमपाररूपं
गजाननं भक्तियुता भजामः ॥ ३ ॥
जगत्प्रमाणं जगदीशमेव-
-मगम्यमाद्यं जगदादिहीनम् ।
अनात्मनां मोहप्रदं पुराणं
गजाननं भक्तियुता भजामः ॥ ४ ॥
न भूर्न रूपं न जलं प्रकाशं
न तेजसिस्थं न समीरणस्थम् ।
न खे गतं पञ्चविभूतिहीनं
गजाननं भक्तियुता भजामः ॥ ५ ॥
न विश्वगं तैजसगं न प्राज्ञं
समष्टिव्यष्टिस्थमनन्तगं न ।
गुणैर्विहीनं परमार्थभूतं
गजाननं भक्तियुता भजामः ॥ ६ ॥
गुणेशगं नैव च बिन्दुसंस्थं
न देहिनं बोधमयं न ढुण्ढिम् ।
सम्योगहीनाः प्रवदन्ति तत्स्थं
गजाननं भक्तियुता भजामः ॥ ७ ॥
अनागतं नैव गतं गणेशं
कथं तदाकारमयं वदामः ।
तथापि सर्वं प्रभुदेहसंस्थं
गजाननं भक्तियुता भजामः ॥ ८ ॥
यदि त्वया नाथ कृतं न किञ्चि-
-त्तदा कथं सर्वमिदं विभाति ।
अतो महात्मानमचिन्त्यमेव
गजाननं भक्तियुता भजामः ॥ ९ ॥
सुसिद्धिदं भक्तजनस्य देवं
स कामिकानामिह सौख्यदं तम् ।
अकामिकानां भवबन्धहारं
गजाननं भक्तियुता भजामः ॥ १० ॥
सुरेन्द्रसेव्यं ह्यसुरैः सुसेव्यं
समानभावेन विराजयन्तम् ।
अनन्तवाहं मुषकध्वजं तं
गजाननं भक्तियुता भजामः ॥ ११ ॥
सदा सुखानन्दमये जले च
समुद्रजे चेक्षुरसे निवासम् ।
द्वन्द्वस्य पानेन च नाशरूपे
गजाननं भक्तियुता भजामः ॥ १२ ॥
चतुःपदार्था विविधप्रकाशा-
-स्त एव हस्ताः स चतुर्भुजं तम् ।
अनाथनाथं च महोदरं वै
गजाननं भक्तियुता भजामः ॥ १३ ॥
महाखुमारूढमकालकालं
विदेहयोगेन च लभ्यमानम् ।
अमायिनं मायिकमोहदं तं
गजाननं भक्तियुता भजामः ॥ १४ ॥
रविस्वरूपं रविभासहीनं
हरिस्वरूपं हरिबोधहीनम् ।
शिवस्वरूपं शिवभासनाशं
गजाननं भक्तियुता भजामः ॥ १५ ॥
महेश्वरीस्थं च सुशक्तिहीनं
प्रभुं परेशं परवन्द्यमेवम् ।
अचालकं चालकबीजभूतं
गजाननं भक्तियुता भजामः ॥ १६ ॥
शिवादिदेवैश्च खगैः सुवन्द्यं
नरैर्लतावृक्षपशुप्रभूभिः ।
चराचरैर्लोकविहीनमेवं
गजाननं भक्तियुता भजामः ॥ १७ ॥
मनोवचोहीनतया सुसंस्थं
निवृत्तिमात्रं ह्यजमव्ययं तम् ।
तथापि देवं पुर आस्थितं तं
गजाननं भक्तियुता भजामः ॥ १८ ॥
वयं सुधन्या गणपस्तवेन
तथैव नत्यार्चनतस्तवैव ।
गणेशरूपाश्च कृतास्त्वया तं
गजाननं भक्तियुता भजामः ॥ १९ ॥
गजाख्यबीजं प्रवदन्ति वेदा-
-स्तदेव चिह्नेन च योगिनस्त्वाम् ।
गच्छन्ति तेनैव गजाननस्त्वं
गजाननं भक्तियुता भजामः ॥ २० ॥
पुराणवेदाः शिवविष्णुकाद्या-
-ऽमराः शुकाद्या गणपस्तवे वै ।
विकुण्ठिताः किं च वयं स्तवाम
गजाननं भक्तियुता भजामः ॥ २१ ॥
मुद्गल उवाच ।
एवं स्तुत्वा गणेशानं नेमुः सर्वे पुनः पुनः ।
तानुत्थाप्य वचो रम्यं गजानन उवाच ह ॥ २२ ॥
गजानन उवाच ।
वरं ब्रूत महाभागा देवाः सर्षिगणाः परम् ।
स्तोत्रेण प्रीतिसम्युक्तः परं दास्यामि वाञ्छितम् ॥ २३ ॥
गजाननवचः श्रुत्वा हर्षयुक्ताः सुरर्षयः ।
जगुस्तं भक्तिभावेन साश्रुनेत्राः प्रजापते ॥ २४ ॥
देवर्षय ऊचुः ।
गजानन यदि स्वामिन् प्रसन्नो वरदोऽसि भोः ।
तदा भक्तिं दृढां देहि लोभहीनां त्वदीयकाम् ॥ २५ ॥
लोभासुरस्य देवेश कृता शान्तिः सुखप्रदा ।
तदा जगदिदं सर्वं वरयुक्तं कृतं त्वया ॥ २६ ॥
अधुना देवदेवेश कर्मयुक्ता द्विजादयः ।
भविष्यन्ति धरायां वै वयं स्वस्थानगास्तथा ॥ २७ ॥
स्वस्वधर्मरताः सर्वे गजानन कृतास्त्वया ।
अतःपरं वरं याचामहे ढुण्ढे कमप्यहो ॥ २८ ॥
यदा ते स्मरणं नाथ करिष्यामो वयं प्रभो ।
तदा सङ्कटहीनान् वै कुरु त्वं नो गजानन ॥ २९ ॥
एवमुक्त्वा प्रणेमुस्तं गजाननमनामयम् ।
स तानुवाच प्रीतात्मा भक्त्यधीनस्वभावतः ॥ ३० ॥
गजानन उवाच ।
यद्यच्च प्रार्थितं देवा मुनयः सर्वमञ्जसा ।
भविष्यति न सन्देहो मत्स्मृत्या सर्वदा हि वः ॥ ३१ ॥
भवत्कृतमदीयं वै स्तोत्रं सर्वत्र सिद्धिदम् ।
भविष्यति विशेषेण मम भक्तिप्रदायकम् ॥ ३२ ॥
पुत्रपौत्रप्रदं पूर्णं धनधान्यविवर्धनम् ।
सर्वसम्पत्करं देवाः पठनाच्छ्रवणान्नृणाम् ॥ ३३ ॥
मारणोच्चाटनादीनि नश्यन्ति स्तोत्रपाठतः ।
परकृत्यं च विप्रेन्द्रा अशुभं नैव बाधते ॥ ३४ ॥
सङ्ग्रामे जयदं चैव यात्राकाले फलप्रदम् ।
शत्रूच्चाटनकाद्येषु प्रशस्तं तद्भविष्यति ॥ ३५ ॥
कारागृहगतस्यैव बन्धनाशकरं भवेत् ।
असाध्यं साधयेत् सर्वमनेनैव सुरर्षयः ॥ ३६ ॥
एकविंशतिवारं चैकविंशति दिनावधिम् ।
प्रयोगं यः करोत्येव स भवेत् सर्वसिद्धिभाक् ॥ ३७ ॥
धर्मार्थकाममोक्षाणां ब्रह्मभूतस्य दायकम् ।
भविष्यति न सन्देहः स्तोत्रं मद्भक्तिवर्धनम् ।
एवमुक्त्वा गणाधीशस्तत्रैवान्तरधीयत ॥ ३८ ॥
इति श्रीमन्मुद्गलपुराणे गजाननचरिते त्रिचत्वारिंशोऽध्याये देवमुनिकृत गजाननस्तोत्रं सम्पूर्णम् ।