श्रीकृष्ण उवाच ।
वद शिव महानाथ पार्वतीरमणेश्वर ।
दैत्यसङ्ग्रामवेलायां स्मरणीयं किमीश्वर ॥ १ ॥
ईश्वर उवाच ।
शृणु कृष्ण प्रवक्ष्यामि गुह्याद्गुह्यतरं महत् ।
गणेशदुर्गदिव्यं च शृणु वक्ष्यामि भक्तितः ॥ २ ॥
त्रिपुरवधवेलायां स्मरणीयं किमीश्वर ।
दिव्यदुर्गप्रसादेन त्रिपुराणां वधः कृतः ॥ ३ ॥
श्रीकृष्ण उवाच ।
हेरम्बस्य दुर्गमिदं वद त्वं भक्तवत्सल ।
ईश्वर उवाच ।
शृणु वत्स प्रवक्ष्यामि दुर्गे वैनायकं शुभम् ॥ ४ ॥
सङ्ग्रामे च श्मशाने च अरण्ये चोरसङ्कटे ।
नृपद्वारे ज्वरे घोरे येनैव मुच्यते भयात् ॥ ५ ॥
प्राच्यां रक्षतु हेरम्बः आग्नेय्यामग्नितेजसा ।
याम्यां लम्बोदरो रक्षेत् नैरृत्यां पार्वतीसुतः ॥ ६ ॥
प्रतीच्यां वक्रतुण्डश्च वायव्यां वरदप्रभुः ।
गणेशः पातु औदीच्यां ईशान्यामीश्वरस्तथा ॥ ७ ॥
ऊर्ध्वं रक्षेद्धूम्रवर्णो ह्यधस्तात्पापनाशनः ।
एवं दशदिशो रक्षेत् हेरम्बो विघ्ननाशनः ॥ ८ ॥
हेरम्बस्य दुर्गमिदं त्रिकालं यः पठेन्नरः ।
कोटिजन्मकृतं पापं एकावृत्तेन नश्यति ॥ ९ ॥
गणेशाङ्गारशेषेण दिव्यदुर्गेण मन्त्रितम् ।
ललाटं चर्चितं येन त्रैलोक्यवशमानयेत् ॥ १० ॥
मात्रागमसहस्राणि सुरापानशतानि च ।
तत् क्षणात्तानि नश्यन्ति गणेशतीर्थवन्दनात् ॥ ११ ॥
नैवेद्यं वक्ततुण्डस्य नरो भुङ्क्ते तु भक्तितः ।
राज्यदानसहस्राणि तेषां फलमवाप्नुयात् ॥ १२ ॥
कदाचित्पठ्यते भक्त्या हेरम्बस्य प्रसादतः ।
शाकिनी डाकिनी भूतप्रेत वेताल राक्षसाः ॥ १३ ॥
ब्रह्मराक्षसकूष्माण्डाः प्रणश्यन्ति च दूरतः ।
भूर्जे वा ताडपत्रे वा दुर्गहेरम्बमालिखेत् ॥ १४ ॥
करमूले धृतं येन करस्थाः सर्वसिद्धयः ।
एकमावर्तनं भक्त्या पठेन्नित्यं तु यो नरः ॥ १५ ॥
कल्पकोटिसहस्राणि शिवलोके महीयते ।
लिङ्गदानसहस्राणि पृथ्वीदानशतानि च ॥ १६ ॥
गजदानसहस्रं च गणेशस्तवनात् फलम् ॥ १७ ॥
इति श्रीपद्मपुराणे गणेशदिव्यदुर्गस्तोत्रं सम्पूर्णम् ।