श्रीगौरीसहितेशफालनयनादुद्भूतमग्न्याशुग-
-व्यूढं विष्णुपदीपयः शरवणे सम्भूतमन्यादृशम् ।
षोढाविग्रहसुन्दरास्यममलं श्रीकृत्तिकाप्रीतये
शर्वाण्यङ्कविभूषणं स्फुरतु मच्चित्ते गुहाख्यं महः ॥ १ ॥
त्रिषडकृशदृगब्जः षण्मुखाम्भोरुहश्रीः
द्विषडतुलभुजाढ्यः कोटिकन्दर्पशोभः ।
शिखिवरमधिरूढः शिक्षयन् सर्वलोकान्
कलयतु मम भव्यं कार्तिकेयो महात्मा ॥ २ ॥
यद्रूपं निर्गुणं ते तदिह गुणमहायोगिभिर्ध्यानगम्यं
यच्चान्यद्विश्वरूपं तदनवधितया योगिभिश्चाप्यचिन्त्यम् ।
षड्वक्त्राष्टादशाक्षाद्युपहितकरुणामूर्तिरेषैव भाति
स्वाराध्याशेषदुःखप्रशमनबहुलीलास्पदा चाप्यतुल्या ॥ ३ ॥
यच्छ्रीमत्पादपङ्केरुहयुगलमहापादुके स्वस्वमूर्ध्ना
धर्तुं विष्णुप्रमुख्या अपि च सुमनसः प्रागकुर्वंस्तपांसि ।
तत्तादृक्स्थूलभूतं पदकमलयुगं योगिहृद्ध्यानगम्यं
श्रीसुब्रह्मण्य साक्षात् स्फुरतु मम हृदि त्वत्कटाक्षेण नित्यम् ॥ ४ ॥
यस्य श्रीशमुखामराश्च जगति क्रीडां च बाल्योद्भवां
चित्रारोपितमानुषा इव समालोक्याभवंस्तम्भिताः ।
लोकोपद्रवकृत्स नारदपशुर्यस्याभवद्वाहनं
सोऽस्मान् पातु निरन्तरं करुणया श्रीबालषाण्मातुरः ॥ ५ ॥
येन साक्षाच्चतुर्वक्त्रः प्रणवार्थविनिर्णये ।
कारागृहं प्रापितोऽभूत् सुब्रह्मण्यः स पातु माम् ॥ ६ ॥
कारुण्यद्रुतपञ्चकृत्यनिरतस्यानन्दमूर्तेर्मुखैः
श्रीशम्भोः सह पञ्चभिश्च गिरिजावक्त्रं मिलित्वामलम् ।
यस्य श्रीशिवशक्त्यभिन्नवपुषो वक्त्राब्जषट्काकृतिं
धत्ते सोऽसुरवंशभूधरपविः सेनापतिः पातु नः ॥ ७ ॥
यः शक्त्या तारकोरःस्थलमतिकठिनं क्रौञ्चगोत्रं च भित्त्वा
हत्वा तत्सैन्यशेषं निखिलमपि च तान् वीरबाहुप्रमुख्यान् ।
उद्धृत्वा युद्धरङ्गे सपदि च कुसुमैर्वर्षितो नाकिबृन्दैः
पायादायासतोऽस्मान् स झटिति करुणाराशिरीशानसूनुः ॥ ८ ॥
यद्दूतो वीरबाहुः सपदि जलनिधिं व्योममार्गेण तीर्त्वा
जित्वा लङ्कां समेत्य द्रुतमथ नगरीं वीरमाहेन्द्रनाम्नीम् ।
देवानाश्वास्य शूरप्रहितमपि बलं तत्सभां गोपुरादीन्
भित्त्वा यत्पादपद्मं पुनरपि च समेत्यानमत्तं भजेऽहम् ॥ ९ ॥
यो वैकुण्ठादिदेवैः स्तुतपदकमलो वीरभूतादिसैन्यैः
संवीतो यो नभस्तो झटिति जलनिधिं द्योपथेनैव तीर्त्वा ।
शूरद्वीपोत्तरस्यां दिशि मणिविलसद्धेमकूटाख्यपुर्यां
त्वष्टुर्निर्माणजायां कृतवसतिरभूत् पातु नः षण्मुखः सः ॥ १० ॥
नानाभूतौघविध्वंसितनिजपृतनो निर्जितश्च द्विरावृ-
-त्त्यालब्धस्वावमाने निजपितरि ततः सङ्गरे भानुकोपः ।
मायी यत्पादभृत्यप्रवरतरमहावीरबाहुप्रणष्ट-
-प्राणोऽभूत् सोऽस्तु नित्यं विमलतरमहाश्रेयसे तारकारिः ॥ ११ ॥
येन कृच्छ्रेण निहतः सिंहवक्त्रो महाबलः ।
द्विसहस्रभुजो भीमः ससैन्यस्तं गुहं भजे ॥ १२ ॥
भूरिभीषणमहायुधारव-
-क्षोभिताब्धिगणयुद्धमण्डलः ।
सिंहवक्त्रशिवपुत्रयो रणः
सिंहवक्त्रशिवपुत्रयोरिव ॥ १३ ॥
शूरापत्यगणेषु यस्य गणपैर्नष्टेषु सिंहाननो
दैत्यः क्रूरबलोऽसुरेन्द्रसहजः सेनासहस्रैर्युतः ।
युद्धे च्छिन्नभुजोत्तमाङ्गनिकरो यद्बाहुवज्राहतो
मृत्युं प्राप स मृत्युजन्यभयतो मां पातु वल्लीश्वरः ॥ १४ ॥
अष्टोत्तरसहस्राण्डप्राप्तशूरबलं महत् ।
क्षणेन यः संहृतवान् स गुहः पातु मां सदा ॥ १५ ॥
अण्डभित्तिपरिकम्पिभीषण-
-क्रूरसैन्यपरिवारपूर्णयोः ।
शूरपद्मगुहयोर्महारणः
शूरपद्मगुहयोरिवोल्बणः ॥ १६ ॥
नानारूपधरश्च निस्तुलबलो नानाविधैरायुधै-
-र्युद्धं दिक्षु विदिक्षु दर्शितमहाकायोऽण्डषण्डेष्वपि ।
यः शक्त्याशु विभिन्नतामुपगतः शूरोऽभवद्वाहनं
केतुश्चापि नमामि यस्य शिरसा तस्याङ्घ्रिपङ्केरुहे ॥ १७ ॥
केकिकुक्कुटरूपाभ्यां यस्य वाहनकेतुताम् ।
अद्यापि वहते शूरस्तं ध्यायाम्यन्वहं हृदि ॥ १८ ॥
देवैः सम्पूजितो यो बहुविधसुमनोवर्षिभिर्भूरिहर्षै-
-र्वृत्रारिं स्वर्गलोके विपुलतरमहावैभवैरभ्यषिञ्चत् ।
तद्दत्तां तस्य कन्यां स्वयमपि कृपया देवयानामुदूह्य
श्रीमत्कैलासमाप द्रुतमथ लवलीं चोद्वहंस्तं भजेऽहम् ॥ १९ ॥
तत्रानन्तगुणाभिराममतुलं चाग्रे नमन्तं सुतं
यं दृष्ट्वा निखिलप्रपञ्चपितरावाघ्राय मूर्ध्न्यादरात् ।
स्वात्मानन्दसुखातिशायि परमानन्दं समाजग्मतुः
मच्चित्तभ्रमरो वसत्वनुदिनं तत्पादपद्मान्तरे ॥ २० ॥
दुष्पुत्रैर्जननी सती पतिमती कोपोद्धतैः स्वैरिणी-
-रण्डासीत्यतिनिन्दितापि न तथा भूयाद्यथा तत्त्वतः ।
दुष्पाषण्डिजनैर्दुराग्रहपरैः स्कान्दं पुराणं महत्
मिथ्येत्युक्तमपि क्वचिच्च न तथा भूयात्तथा सत्यतः ॥ २१ ॥
किं तु तद्दूषणात्तेषामेव कुत्सितजन्मनाम् ।
ऐहिकामुष्मिकमहापुरुषार्थक्षयो भवेत् ॥ २२ ॥
यत्संहिताषट्कमध्ये द्वितीया सूतसंहिता ।
भाति वेदशिरोभूषा स्कान्दं तत्केन वर्ण्यते ॥ २३ ॥
यस्य शम्भौ परा भक्तिर्यस्मिन्नीशकृपामला ।
अपांसुला यस्य माता तस्य स्कान्दे भवेद्रतिः ॥ २४ ॥
षडाननस्तुतिमिमां यो जपेदनुवासरम् ।
धर्ममर्थं च कामं च मोक्षं चापि स विन्दति ॥ २५ ॥
इति श्रीषडानन स्तुतिः ।