यो देवानां पुरो दित्सुरर्थिभ्यो वरमीप्सितम् ।
अग्रे स्थितः स विघ्नेशो ममान्तर्हृदये स्थितः ॥ १ ॥
महः पुरा वै बुधसैन्धवश्री-
-शराटवीमध्यगतं हृदन्तः ।
श्रीकण्ठफालेक्षणजातमीडे
तत्पुष्करस्यायतनाद्धि जातम् ॥ २ ॥
महो गुहाख्यं निगमान्तपङ्क्ति
मृग्याङ्घ्रिपङ्केरुहयुग्ममीडे ।
साम्बो वृषस्थः सुतदर्शनोत्को
यत्पर्यपश्यत्सरिरस्य मध्ये ॥ ३ ॥
त्वामेव देवं शिवफालनेत्र-
-महोविवर्तं परमात्मरूपम् ।
तिष्ठन् व्रजन् जाग्रदहं शयानः
प्राणेन वाचा मनसा बिभर्मि ॥ ४ ॥
नमो भवानीतनुजाय तेऽस्तु
विज्ञाततत्त्वा मुनयः पुराणाः ।
यमेव शम्भुं हरिमब्जयोनिं
यमिन्द्रमाहुर्वरुणं यमाहुः ॥ ५ ॥
कोटीरकोटिस्थमहार्घकोटि-
-मणिप्रभाजालवृतं गुहं त्वाम् ।
अनन्यचेताः प्रणवाब्जहंसं
वेदाहमेतं पुरुषं महान्तम् ॥ ६ ॥
स नोऽवतु स्वालिकपङ्क्तिजीव-
-ग्रहं गृहीतायत चन्द्रखण्डः ।
गुहादसीयन्तमिदं स्वरूपं
परात्परं यन्महतो महान्तम् ॥ ७ ॥
स्वर्गापगामध्यगपुण्डरीक-
-दलप्रभाजैत्रविलोचनस्य ।
अक्ष्णां सहस्रेण विलोक्यमानं
न सन्दृशे तिष्ठति रूपमस्य ॥ ८ ॥
हेमद्विषत्कुण्डलमण्डलाढ्य-
-गण्डस्थलीमण्डिततुण्डशोभः ।
ब्रह्म त्वमेवेति गुहो मुनीन्द्रैः
हृदा मनीषा मनसाऽभिक्लप्तः ॥ ९ ॥
सुपक्वबिम्बाधरकान्तिरक्त-
-सन्ध्यामृगाङ्कायितदन्तपङ्क्तिः ।
गुहस्य नः पातु विलोलदृष्टिः
येनावृतं खं च दिवं महीं च ॥ १० ॥
करीन्द्रशुण्डायितदोःप्रकाण्ड
द्विषट्ककेयूरविराजमानम् ।
गुहं मृडानीभवमप्रमेयं
न चक्षुषा पश्यति कश्चनैनम् ॥ ११ ॥
स्वकीयदोर्दण्डगृहीतचण्ड-
-कोदण्ड निर्मुक्त पृषत्कषण्डैः ।
त्रिविष्टपान्धङ्करणैरशून्यान्
यः सप्तलोकानकृणोद्दिशश्च ॥ १२ ॥
सौवर्णहारादिविभूषणोज्ज्वल-
-न्मणिप्रभालीढ विशालवक्षाः ।
स्कन्दः स मां पातु जिताब्जयोनिः
अजायमानो बहुधा विजायते ॥ १३ ॥
देवः स वैहारिकवेषधारी
लीलाकृताशेषजगद्विमर्दः ।
शिखिध्वजः पातु भयङ्करेभ्यो
यः सप्तसिन्धूनदधात्पृथिव्याम् ॥ १४ ॥
षडाननो द्वादशबाहुदण्डः
श्रुत्यन्तगामी द्विषडीक्षणाढ्यः ।
भीताय मह्यं गिरिजातनूजो
हिरण्यवर्णस्त्वभयं कृणोतु ॥ १५ ॥
यो दानवानीकभयङ्कराटवी
समूलकोत्पाटनचण्डवातः ।
षाण्मातुरः संहृत सर्वशत्रुः
अथैकराजो ह्यभवज्जनानाम् ॥ १६ ॥
अतीव बालः प्रवयाः कुमारो
वर्णी युवा षण्मुख एकवक्त्रः ।
इत्थं महस्तद्बहुधाऽऽविरासी-
-द्यदेकमव्यक्तमनन्तरूपम् ॥ १७ ॥
यदीयमायावरणाख्यशक्ति
तिरोहितान्तः करणा हि मूढाः ।
न जानते त्वां गुह तं प्रपद्ये
परेण नाकं निहितं गुहायाम् ॥ १८ ॥
गुरूपदेशाधिगतेन योग-
-मार्गेण सम्प्राप्य च योगिनस्त्वाम् ।
गुहं परं ब्रह्म हृदम्बुजस्थं
विभ्राजदेतद्यतयो विशन्ति ॥ १९ ॥
यो देवसेनापतिरादराद्वै
ब्रह्मादिभिर्देवगणैरभिष्टुतः ।
तं देवसेनान्यमहं प्रपद्ये
विश्वं पुराणं तमसः परस्तात् ॥ २० ॥
हृदम्बुजान्तर्दहराग्रवर्ति
कृशानुमध्यस्थपरात्मरूपात् ।
गुहात्सुसूक्ष्मान्मुनयः प्रतीयु-
-रतः परं नान्यदणीयसं हि ॥ २१ ॥
तपः प्रसन्नेशबहुप्रदत्त-
-वरप्रमत्तासुरभीतिभाजाम् ।
सुपर्वणां स्कन्द भवान् शरण्यः
इन्द्रस्य विष्णोर्वरुणस्य राज्ञः ॥ २२ ॥
स एव देवो गिरिजाकुमारो
राजा स मित्रं स हि नो वरेण्यः ।
भ्राता स बन्धुः स गुरुः स्वसा च
स एव पुत्रः स पिता च माता ॥ २३ ॥
स्वराज्यदात्रे स्वसुतां वितीर्य
तां देवसेनां सुकुमारगात्राम् ।
आराधयत्यन्वहमाम्बिकेयं
इन्द्रो हविष्मान्सगणो मरुद्भिः ॥ २४ ॥
देवेन येनालघुविक्रमेण
हतेषु सर्वेष्वपि दानवेषु ।
पुरेव देवाः स्वपदेऽधिचक्रुः
इन्द्रश्च सम्राड्वरुणश्च राजा ॥ २५ ॥
षाण्मातुरोऽसौ जगतां शरण्य-
-स्तेजोऽन्नमापः पवनश्च भूत्वा ।
संरक्षणायैव जगत्सु देवो
विवेश भूतानि चराचराणि ॥ २६ ॥
करौ युवामञ्जलिमेव नित्यं
उमाङ्गजाताय विधत्तमस्मै ।
एष प्रसन्नः सुकुमारमूर्ति-
-रस्मासु देवो द्रविणं दधातु ॥ २७ ॥
निधिः कलानामुदधिर्दयानां
पतिर्जनानां सरणिर्मुनीनाम् ।
कदा प्रसीदेन्मयि पार्वतेयः
पिता विराजामृषभो रयीणाम् ॥ २८ ॥
सौन्दर्यवल्लीतनुसौकुमार्य-
-सरोजपुष्पन्धयमानसो यः ।
चचार कान्तारपथेषु देवः
स नो ददातु द्रविणं सुवीर्यम् ॥ २९ ॥
इतोऽपि सौन्दर्यवदस्तु देह-
-मितीव हुत्वा शिवफालनेत्रे ।
जातस्ततः किं स कुमार एव
कामस्तदग्रे समवर्तताधि ॥ ३० ॥
मुमुक्षुलोकाः शृणुत प्रियं वो
भजध्वमेनं गिरिजाकुमारम् ।
अस्यैव देवस्य परात्मतेति
हृदि प्रतीष्या कवयो मनीषा ॥ ३१ ॥
धेनुर्बह्वीः कामदोग्ध्रीः सुवत्साः
कुण्डोध्नीर्गा देहि नस्त्वं सहस्रम् ।
भक्तार्तिघ्नं देवदेवं षडास्यं
विद्माहि त्वा गोपतिं शूरगोनाम् ॥ ३२ ॥
वन्दामहे बर्हिणवाहनस्थितं
वनीपकाशेषमनीषितप्रदम् ।
तोष्टूयमानं बहुधा पदे पदे
सङ्क्रन्दनेनानिमिषेण जिष्णुना ॥ ३३ ॥
दिग्भ्यो दशभ्यः परितः पुनः पुनः
परः शतायातसिषेविषावताम् ।
अनुग्रहायैव षडाननो ह्यसौ
प्रत्यङ्ग्मुखस्तिष्ठति विश्वतोमुखः ॥ ३४ ॥
कूर्मः फणीन्द्रश्च तथा फणाभृतो
दिग्दन्तिनश्चैव कुलाचला अपि ।
भूत्वाऽम्बिकेयः प्रथितः प्रतापवान्
ब्रह्माध्यतिष्ठद्भुवनानि धारयन् ॥ ३५ ॥
यो वै स्कन्दः पृष्टः शम्भोः सत्यं ज्ञानं ब्रह्माद्वैतम् ।
ओङ्कारार्थं प्राह स्मेत्थं सुब्रह्मण्यों सुब्रह्मण्योम् ॥ ३६ ॥
यो जाह्ववीशरारण्यह्रदाम्भोजे बभौ पुरा ।
तस्मै नमः षण्मुखाय महासेनाय धीमहि ॥ ३७ ॥
यद्दक्षिणकराम्भोजमिष्टदं स्वानुजीविनाम् ।
तेभ्य इन्द्रादिसेनानां सेनानिभ्यश्च वो नमः ॥ ३८ ॥
देवतानामृषीणां च भक्तानामपि योगिनाम् ।
भूतानामपि वीराणां पतीनां पतये नमः ॥ ३९ ॥
नमस्तेऽस्तु महेशान भीतेभ्यः शूरपद्मनः ।
सुनासीरमुखेभ्यस्त्वं स्वस्तिदा अभयङ्करः ॥ ४० ॥
कटाक्षवीक्षणापास्त निखिलव्याधिबन्धन ।
देवसेनापते स्वामिन् अभि त्वा शूर नूनुमः ॥ ४१ ॥
अन्तश्चरसि भूतेषु त्वमेकः सूक्ष्मरूपतः ।
त्वमेव निगमान्तेषु परमात्मा व्यवस्थितः ॥ ४२ ॥
मही द्यौरन्तरिक्षं च वायुरापोऽनलोऽम्बरम् ।
सुब्रह्मण्य जगन्नाथ त्वयि सर्वं प्रतिष्ठितम् ॥ ४३ ॥
शैशवे त्वं महासेन बन्दीकृत्य प्रजापतिम् ।
अस्राक्षीस्तान्यथापूर्वं मनुष्याः पशवश्च ये ॥ ४४ ॥
वेदान्तकन्दरीवर्ति गुहाशयषडानने ।
त्रिलोकीयं त्वयि विभो नावीवान्तः समाहिता ॥ ४५ ॥
कला मुहूर्ताः काष्ठाश्च मासा वर्षा युगानि च ।
त्वयि वल्लीश निहिता निमेषास्त्रुटिभिः सह ॥ ४६ ॥
रोगकान्तारदावाग्ने मृत्युकक्षहुताशन ।
शूरघ्न त्वत्प्रतापेन रेजती रोदसी उभे ॥ ४७ ॥
परं ब्रह्म विचिन्वन्तो हृदयाम्भोजमध्यगम् ।
योगिनो नारदाद्यास्त्वां सदा पश्यन्ति सूरयः ॥ ४८ ॥
हतशूरमुखाशेषदैतेयं त्वां गुहास्तुवन् ।
अग्नाविष्णू चेन्द्रवायू सोमो धाता बृहस्पतिः ॥ ४९ ॥
वाचालयस्यवाचं त्वं सचक्षुः कुरुषेऽदृशम् ।
आश्रितेभ्यो जगन्नाथ शिवो नः सुमना भव ॥ ५० ॥
स एव जगतः कर्ता भर्ता हर्ता जगद्गुरुः ।
कुमारः सच्चिदानन्दः सोऽक्षरः परमः स्वराट् ॥ ५१ ॥
असुरान् शूरपद्मादीन् हत्वा शरवणोद्भवः ।
देवान् स्वस्वपदे कृत्वा सम्राडेको विराजसि ॥ ५२ ॥
तव दृष्ट्वा विश्वरूपं सहर्षभयवेपथु ।
त्वामस्तुवन्नादितेयाः बृहस्पतिपुरोहिताः ॥ ५३ ॥
किन्नरा गरुडा नागा यक्षाः साध्या मरुद्गणाः ।
ऐन्द्रीशं त्वामहरहः विश्वे देवा उपासते ॥ ५४ ॥
विश्वासान्मानुषीणां च प्रजानां पशुपक्षिणाम् ।
चराचराणां जगतां ध्रुवो राजा विशामयम् ॥ ५५ ॥
अम्भोजसंवर्तिकासु राजहंसा इव प्रभो ।
मदीयहृदयाम्भोजे ध्रुवस्तिष्ठाविचाचलिः ॥ ५६ ॥
लीलामात्रकृताशेषभुवनाद्गिरिजासुतात् ।
अथर्व चाथ ऋक्साम यजुस्तस्मादजायत ॥ ५७ ॥
तिले तैलमिव प्रोतं दध्न्याज्यमिव षण्मुखे ।
मणौ सूत्रमिव स्यूतं ब्रह्म विश्वमिदं जगत् ॥ ५८ ॥
यस्तप्तादीनृषीन् शापादुद्दधार हरात्मजः ।
मातुः स्तनसुधापूरे पुत्रः प्रमुदितोधयन् ॥ ५९ ॥
इज्यया पूजया स्तुत्या भक्त्या च परिचर्यया ।
ध्यानेन तपसा च त्वां देवं मनसि ईडते ॥ ६० ॥
श्रुतिस्मृत्यागमाद्युक्तकर्मणां फलदायिने ।
स्कन्दाय तुभ्यं मखिभिः श्रद्धया हूयते हविः ॥ ६१ ॥
मूर्धा द्यौरम्बरं नाभिरूरू भूरतलं पदे ।
षण्मुखस्येत्येवमाहुः अन्तर्विश्वमिदं जगत् ॥ ६२ ॥
भक्तसन्तापशमन प्रावृषेण्यघनाघनात् ।
स्कन्दादन्यं मनो मागाः स दृष्टो मृडयाति नः ॥ ६३ ॥
जिह्वे त्वमुच्चैर्निस्तन्द्रा रात्रिन्दिवमभिष्टुहि ।
देवसेनं महासेनं अदुग्धा इव धेनवः ॥ ६४ ॥
अकलङ्कशरच्चन्द्रविलसत्त्वन्मुखस्रुताः ।
मन्दस्मितसुधाधारास्ता मे कृण्वन्तु भेषजम् ॥ ६५ ॥
देवानीजिमहे पूर्वं तपश्चकृमहे पुरा ।
यद्गुहो देवतास्माकं कविर्गृहपतिर्युवा ॥ ६६ ॥
मदीयहृदयाम्भोजनिर्यूहमणिमञ्चके ।
षडानन त्वत्पादः स्यादियान् प्रादेशसम्मितः ॥ ६७ ॥
चिरन्तनवचः स्तुत्यः प्रणवाम्बुजषट्पदः ।
करोतु देवसेनेशः शिवा नः प्रदिशो दिशः ॥ ६८ ॥
दैतेयवधसन्नद्धो भवान् पवनसारथिः ।
द्विलक्षमर्वतो हैमे रथे युक्त्वाऽधितिष्ठति ॥ ६९ ॥
गगनोच्छ्रितकोदण्डकिरीटं शूरमाहवे ।
बिभेदिथ त्वं नाराचैः सहस्रेण शतेन च ॥ ७० ॥
ऐशाल्ललाटनयनात् जातं वह्निर्यथाऽरणेः ।
मुमुक्षवो गुहं ब्रह्म विचिन्वन्तु मनीषया ॥ ७१ ॥
हिरण्यज्योतिषं स्कन्दं याचध्वं भो वनीपकाः ।
एषोऽर्थिनः पूरयति प्रजया च धनेन च ॥ ७२ ॥
सन्निधास्यति किं स्वामी भवनाम्बुरुहेक्षणः ।
तावकं मञ्जुलं रूपं स्मर्यते न च दृश्यते ॥ ७३ ॥
यतस्त्वं जगतामेषां आशिषे शिखिवाहन ।
ततो देहि बहून्व्रीहीनकृष्टा ये च कृष्टजाः ॥ ७४ ॥
धनधान्यगृहान् पुत्रान् देहि देव दयानिधे ।
त्वमाश्रितेष्टद इति कर्णाभ्यां भूरि विश्रुतम् ॥ ७५ ॥
भक्तेभ्यो मुचुकुन्दाख्यप्रमुखेभ्यो यथा गुह ।
प्रादास्तथा देहि मह्यमच्युतां बहुलां श्रियम् ॥ ७६ ॥
भक्तान् तत्पुत्रसुहृदः तन्मातृपितृसोदरान् ।
पाहि स्कन्द पुनश्चास्य द्विपदो ये चतुष्पदः ॥ ७७ ॥
चोरव्याघ्रपिशाचाखुसर्पकीटादिबाधकात् ।
भक्तान्निशासु संरक्षन् त्रिषु लोकेषु जागृहि ॥ ७८ ॥
दानवेष्वपि दैत्येषु राक्षसेष्वप्यरातिषु ।
पिशाचेष्वपि गाङ्गेय विक्रमस्व महानसि ॥ ७९ ॥
आधिभिर्व्याधिभिश्चैव पीडितानामहर्निशम् ।
दूतानां वपुषि स्वामिन्नासुवोर्जमिषं च नः ॥ ८० ॥
अतितीव्रेण तपसा तप्यमाना अहर्निशम् ।
उपासत त्वां तप्ताद्याः अथ हैनं पुरर्षयः ॥ ८१ ॥
ध्यानावाहनपूजेज्यापरिचर्यास्तुतिष्वहम् ।
अज्ञो मे सफलां पूजां कृणुहि ब्रह्मणस्पते ॥ ८२ ॥
असुरान् राक्षसान् क्रूरान् देवयज्ञविघातकान् ।
जहि देवेश यस्मात्त्वं रक्षोहामीवचातनः ॥ ८३ ॥
दुर्वृत्तेभ्यो धनं धत्से नीचेभ्योऽपि धनं बहु ।
न ददासि कुतो मह्यं एतत्पृच्छामि सम्प्रति ॥ ८४ ॥
मुखैरेतान्महारौद्रान् दूरीकुरु जगत्पते ।
मम स्वमभिकाङ्क्षन्ते ये स्तेना ये च तस्कराः ॥ ८५ ॥
गुह त्वत्पादभक्तानां गेहे जाग्रत्वहर्दिवम् ।
वीरबाहुमुखा वीर ते नित्यानुचरास्तव ॥ ८६ ॥
त्रिषड्विलोचनेष्वेकदृक्कटाक्षेण लक्षयन् ।
आढ्यं करोतु मां स्कन्दः पर्जन्यो वृष्टिमानिव ॥ ८७ ॥
भयानकासुरानीककान्दिशीकाः पुरा खलु ।
गुह त्वां शरणं प्रापुः इन्द्रेण सह देवताः ॥ ८८ ॥
त्वामेव कीर्तयन् देव ध्यायन् शृण्वन् प्रपूजयन् ।
गुह त्वत्पादभक्तोऽहं जीवानि शरदः शतम् ॥ ८९ ॥
कृपादुग्धाब्धिकल्लोलायमानापाङ्गवीक्षण ।
देहि मे गुह बह्वायुर्दीर्घायुस्त्वमिहेशिषे ॥ ९० ॥
पुरारातीक्षणपयः पारावारसुधाकर ।
षड्वक्त्र धेहि कृपया मयि मेधां मयि प्रजाम् ॥ ९१ ॥
भक्तचातकबृन्देष्टवर्षिधाराधर प्रभो ।
अस्मान् सञ्जीवय स्वामिनस्मिन् लोके शतं समाः ॥ ९२ ॥
भीता वयं महासेन पथि दुर्गे वने यतः ।
चोरव्याघ्रपिशाचेभ्यः ततो नो अभयं कृधि ॥ ९३ ॥
व्याधयः शूलकुष्ठार्शः प्रमेहाद्या यतः सदा ।
पीडयन्ति पिशाचाद्याः ततो नो धेहि भेषजम् ॥ ९४ ॥
त्वदीयपादकमलध्यानवर्मितविग्रहान् ।
कुहका मोहकाः क्षुद्राः माऽस्मान्प्रापन्नरातयः ॥ ९५ ॥
धनधान्यपशुक्षेत्रबलेष्वस्मदपेक्षया ।
देवसेनापतेऽस्माकं अधरे सन्तु शत्रवः ॥ ९६ ॥
अरातिकुलनिर्मूलनालङ्कर्मीणविक्रम ।
अकारणेन बहुधा यो नो द्वेष्टि स रिष्यतु ॥ ९७ ॥
मन्त्रैर्यन्त्रैस्तथा तन्त्रैरौषधैरायुधैरपि ।
जिघांसति च योऽस्मान् स द्विषन्मे बहु शोचतु ॥ ९८ ॥
आखण्डलारीनसुरान् त्वं तु स्पर्धावतो यथा ।
जहि गाङ्गेय तौ मर्त्यौ यं चाहं द्वेष्टि यश्च माम् ॥ ९९ ॥
त्वन्नामकीर्तनपरक्षेमङ्करकराम्बुज ।
तमिमं संहर स्वामिन् यश्च नो द्वेषते जनः ॥ १०० ॥
दूरेऽन्तिके वा यः शत्रुः अस्माननपराधिनः ।
शपत्येनं जहि स्कन्द यश्च नः शपतः शपात् ॥ १०१ ॥
चक्षुषा मनसा वाचा मन्त्रेण हवनेन च ।
तत्कृत्यां नाशय स्वामिन् भ्रातृव्यस्याभिदासतः ॥ १०२ ॥
मच्छिद्रान्वेषिणः शत्रोः धनमायुः प्रजाः पशून् ।
सर्वान्नाशय शूरघ्न मा तस्योच्छेषि किञ्चन ॥ १०३ ॥
अविद्वांसश्च विद्वांसः स्वप्ने जाग्रति वा गुह ।
तेभ्यो मोचय मां यद्यदेनांसि चकृमा वयम् ॥ १०४ ॥
वयमूचिम यद्देव जिह्वया देवहेलनम् ।
एनसो मोचयाग्नेय त्वं हि वेत्थ यथातथम् ॥ १०५ ॥
वित्तार्थं वा तथाऽन्यार्थं विप्रार्थं गोऽर्थमेव वा ।
पुनीह्यस्मांस्ततः स्कन्द यत्किञ्चानृतमूदिम ॥ १०६ ॥
तमागसं क्षमस्व त्वं स्वकीयाभीष्टलिप्सया ।
सम्प्रार्थ्य तुभ्यं वाऽन्यस्मै यद्वाचाऽनृतमूदिम ॥ १०७ ॥
सौन्दर्यवल्ल्या सहितं अम्बया देवसेनया ।
महासेनं भजे देवं सत्येन तपसा सह ॥ १०८ ॥
यो वै पठेद्गुहस्यैनं वेदान्तस्तवमादरात् ।
स्कान्दाः कटाक्षास्तस्योच्चैरायुः कीर्तिं प्रजां ददुः ॥ १०९ ॥
स्कन्दस्यैनं वेदपादस्तवं यो
भक्त्या नित्यं श्रावयेद्वा पठेद्वा ।
भूयासुस्ते तस्य मर्त्यस्य शीघ्रं
ये ये कामा दुर्लभा मर्त्यलोके ॥ ११० ॥
इति स्कन्दवेदपादस्तवः ।