यः पूर्वं शिवशक्तिनामकगिरिद्वन्द्वे हिडिम्बासुरे-
-णानीते फलिनीस्थलान्तरगते कौमारवेषोज्ज्वलः ।
आविर्भूय घटोद्भवाय मुनये भूयो वरान् प्रादिशत्
श्रीदण्डायुधपाणिरात्तकरुणः पायादपायात्स माम् ॥ १ ॥
श्रीमत्पुष्यरथोत्सवेऽन्नमधुदुग्धाद्यैः पदार्थोत्तमैः
नानादेशसमागतैरगणितैर्यः कावडीसम्भृतैः ।
भक्तौघैरभिषेचितो बहुवरांस्तेभ्यो ददात्यादरात्
श्रीदण्डायुधपाणिरात्तकरुणः पायादपायत्स माम् ॥ २ ॥
नानादिग्भ्य उपागता निजमहावेशान्विताः सुन्दरीः
तासामेत्य निशासु यः सुमशरानन्दानुभूतिच्छलात् ।
गोपीनां यदुनाथवन्निजपरानन्दं तनोति स्फुटं
श्रीदण्डायुधपाणिरात्तकरुणः पायादपायात्स माम् ॥ ३ ॥
दुष्टानामिह भूतभाविभवतां दुर्मार्गसञ्चारिणां
कष्टाहङ्कृतिजन्यकिल्बिषवशाच्छिष्टप्रविध्वंसिनाम् ।
शिक्षार्थं निजपाणिनोद्वहति यो दण्डाभिधानायुधं
श्रीदण्डायुधपाणिरात्तकरुणः पायादपायात्स माम् ॥ ४ ॥
पूर्वं तारकसञ्ज्ञकं दितिसुतं यः शूरपद्मासुरं
सिंहास्यं च निहत्य वासवमुखान् देवान् जुगोपाखिलान् ।
श्रीवल्ल्या सहितश्च निस्तुलयशाः श्रीदेवसेन्या युतः
श्रीदण्डायुधपाणिरात्तकरुणः पायादपायात्स माम् ॥ ५ ॥
यस्याङ्गस्थितरोमकूपनिकरे ब्रह्माण्डकोटिच्छटाः
सौधाग्रस्थगवाक्षरन्ध्रविचरत्पीलूपमा एव ताः ।
लक्ष्यन्ते यमिदृग्भिरात्मनि तथाभूतस्वविश्वाकृतिः
श्रीदण्डायुधपाणिरात्तकरुणः पायादपायात्स माम् ॥ ६ ॥
सद्योजातमुखैश्च पञ्चवदनैः शम्भोः सहैकं मुखं
पार्वत्या मिलितं विभाति सततं यद्वक्त्रषट्कात्मना ।
तत्तादृक् च्छिवशक्त्यभेदविषयव्यक्त्युज्ज्वलाङ्गं वहन्
श्रीदण्डायुधपाणिरात्तकरुणः पायादपायात्स माम् ॥ ७ ॥
सत्यं ज्ञानमनन्तमद्वयमिति श्रुत्यन्तवाक्योदितं
यद्ब्रह्मास्ति तदेव यस्य च विभोर्मूर्तेः स्वरूपं विदुः ।
योगीन्द्रा विमलाशया हृदि निजानन्दानुभूत्युन्नताः
श्रीदण्डायुधपाणिरात्तकरुणः पायादपायात्स माम् ॥ ८ ॥
इदं श्रीफलिनीदण्डायुधपाण्यष्टकस्तवम् ।
पठतामाशु सिद्ध्यन्ति निखिलाश्च मनोरथाः ॥ ९ ॥
इति श्रीदण्डायुधपाण्यष्टकम् ।