जगत्प्रतिष्ठाहेतुर्यः धर्मः श्रुत्यन्तकीर्तितः ।
तस्यापि शास्ता यो देवस्तं सदा समुपाश्रये ॥ १ ॥
श्रीशङ्करार्यैर्हि शिवावतारैः
धर्मप्रचाराय समस्तकाले ।
सुस्थापितं शृङ्गमहीध्रवर्ये
पीठं यतीन्द्राः परिभूषयन्ति ॥ २ ॥
तेष्वेव कर्मन्दिवरेषु विद्या-
-तपोधनेषु प्रथितानुभावः ।
विद्यासुतीर्थोऽभिनवोऽद्य योगी
शास्तारमालोकयितुं प्रतस्थे ॥ ३ ॥
धर्मस्य गोप्ता यतिपुङ्गवोऽयं
धर्मस्य शास्तारमवैक्षतेति ।
युक्तं तदेतद्युभयोस्तयोर्हि
सम्मेलनं लोकहिताय नूनम् ॥ ४ ॥
कालेऽस्मिन् कलिमलदूषितेऽपि धर्मः
श्रौतोऽयं न खलु विलोपमाप तत्र ।
हेतुः खल्वयमिह नूनमेव नाऽन्यः
शास्ताऽस्ते सकलजनैकवन्द्यपादः ॥ ५ ॥
ज्ञानं षडास्यवरतातकृपैकलभ्यं
मोक्षस्तु तार्क्ष्यवरवाहदयैकलभ्यः ।
ज्ञानं च मोक्ष उभयं तु विना श्रमेण
प्राप्यं जनैः हरिहरात्मजसत्प्रसादात् ॥ ६ ॥
यमनियमादिसमेतैः यतचित्तैर्योगिभिः सदा ध्येयम् ।
शास्तारं हृदि कलये धातारं सर्वलोकस्य ॥ ७ ॥
शबरगिरिनिवासः सर्वलोकैकपूज्यः
नतजनसुखकारी नम्रहृत्तापहारी ।
त्रिदशदितिजसेव्यः स्वर्गमोक्षप्रदाता
हरिहरसुतदेवः सन्ततं शं तनोतु ॥ ८ ॥
इति शृङ्गेरि जगद्गुरु श्रीभारतीतीर्थमहास्वामि विरचितं धर्मशास्ता स्तोत्रम् ।