Sri Subrahmanya Pancharatnam – श्री सुब्रह्मण्य पञ्चरत्नम्

P Madhav Kumar

 षडाननं चन्दनलेपिताङ्गं

महोरसं दिव्यमयूरवाहनम् ।
रुद्रस्यसूनुं सुरलोकनाथं
ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ १ ॥

जाज्वल्यमानं सुरबृन्दवन्द्यं
कुमारधारातट मन्दिरस्थम् ।
कन्दर्परूपं कमनीयगात्रं
ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ २ ॥

द्विषड्भुजं द्वादशदिव्यनेत्रं
त्रयीतनुं शूलमसी दधानम् ।
शेषावतारं कमनीयरूपं
ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ ३ ॥

सुरारिघोराहवशोभमानं
सुरोत्तमं शक्तिधरं कुमारम् ।
सुधार शक्त्यायुध शोभिहस्तं
ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ ४ ॥

इष्टार्थसिद्धिप्रदमीशपुत्रं
इष्टान्नदं भूसुरकामधेनुम् ।
गङ्गोद्भवं सर्वजनानुकूलं
ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ ५ ॥

यः श्लोकपञ्चकमिदं पठतीह भक्त्या
ब्रह्मण्यदेव विनिवेशित मानसः सन् ।
प्राप्नोति भोगमखिलं भुवि यद्यदिष्टं
अन्ते स गच्छति मुदा गुहसाम्यमेव ॥ ६ ॥

इति श्री सुब्रह्मण्य पञ्चरत्नम् ।

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!
Follow Me Chat