Sri Ganesha Stotram – 3 (Daridrya Dahanam) – श्री गणपति स्तोत्रम् – ३ (दारिद्र्यदहनम्)

P Madhav Kumar

 सुवर्णवर्णसुन्दरं सितैकदन्तबन्धुरं

गृहीतपाशकाङ्कुशं वरप्रदाऽभयप्रदम् ।
चतुर्भुजं त्रिलोचनं भुजङ्गमोपवीतिनं
प्रफुल्लवारिजासनं भजामि सिन्धुराननम् ॥ १ ॥

किरीटहारकुण्डलं प्रदीप्तबाहुभूषणं
प्रचण्डरत्नकङ्कणं प्रशोभिताङ्घ्रियष्टिकम् ।
प्रभातसूर्यसुन्दराम्बरद्वयप्रधारिणं
सरलहेमनूपुरं प्रशोभिताङ्घ्रिपङ्कजम् ॥ २ ॥

सुवर्णदण्डमण्डितप्रचण्डचारुचामरं
गृहप्रतीर्णसुन्दरं युगक्षणं प्रमोदितम् ।
कवीन्द्रचित्तरञ्जकं महाविपत्तिभञ्जकं
षडक्षरस्वरूपिणं भजेद्गजेन्द्ररूपिणम् ॥ ३ ॥

विरिञ्चिविष्णुवन्दितं विरूपलोचनस्तुतिं
गिरीशदर्शनेच्छया समर्पितं पराशया ।
निरन्तरं सुरासुरैः सपुत्रवामलोचनैः
महामखेष्टमिष्टकर्मसु भजामि तुन्दिलम् ॥ ४ ॥

मदौघलुब्धचञ्चलार्कमञ्जुगुञ्जितारवं
प्रबुद्धचित्तरञ्जकं प्रमोदकर्णचालकम् ।
अनन्यभक्तिमानवं प्रचण्डमुक्तिदायकं
नमामि नित्यमादरेण वक्रतुण्डनायकम् ॥ ५ ॥

दारिद्र्यविद्रावणमाशु कामदं
स्तोत्रं पठेदेतदजस्रमादरात् ।
पुत्रीकलत्रस्वजनेषु मैत्री
पुमान्मवेदेकवरप्रसादात् ॥ ६ ॥

इति श्रीमच्छङ्कराचार्यविरचितं श्री गणपति स्तोत्रम् ।

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!
Follow Me Chat