नारायण उवाच ।
ओं दुर्गेति चतुर्थ्यन्तः स्वाहान्तो मे शिरोऽवतु ।
मन्त्रः षडक्षरोऽयं च भक्तानां कल्पपादपः ॥ १ ॥
विचारो नास्ति वेदेषु ग्रहणेऽस्य मनोर्मुने ।
मन्त्रग्रहणमात्रेण विष्णुतुल्यो भवेन्नरः ॥ २ ॥
मम वक्त्रं सदा पातु ओं दुर्गायै नमोऽन्ततः ।
ओं दुर्गे रक्षयति च कण्ठं पातु सदा मम ॥ ३ ॥
ओं ह्रीं श्रीमिति मन्त्रोऽयं स्कन्धं पातु निरन्तरम् ।
ह्रीं श्रीं क्लीमिति पृष्ठं च पातु मे सर्वतः सदा ॥ ४ ॥
ह्रीं मे वक्षःस्थलं पातु हस्तं श्रीमिति सन्ततम् ।
श्रीं ह्रीं क्लीं पातु सर्वाङ्गं स्वप्ने जागरणे तथा ॥ ५ ॥
प्राच्यां मां प्रकृतिः पातुः पातु वह्नौ च चण्डिका ।
दक्षिणे भद्रकाली च नैरृत्यां च महेश्वरी ॥ ६ ॥
वारुण्यां पातु वाराही वायव्यां सर्वमङ्गला ।
उत्तरे वैष्णवी पातु तथैशान्यां शिवप्रिया ॥ ७ ॥
जले स्थले चान्तरिक्षे पातु मां जगदम्बिका ।
इति ते कथितं वत्स कवचं च सुदुर्लभम् ॥ ८ ॥
यस्मै कस्मै न दातव्यं प्रवक्तव्यं न कस्यचित् ।
गुरुमभ्यर्च्य विधिवद्वस्त्रालङ्कारचन्दनैः ।
कवचं धारयेद्यस्तु सोऽपि विष्णुर्न संशयः ॥ ९ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे प्रकृतिखण्डे नारदनारायणसंवादे दुर्गोपाख्याने सप्तषष्टितमोऽध्याये ब्रह्माण्डमोहनं नाम श्री दुर्गा कवचम् ।