संवर्ताग्नितटित्प्रदीप्तकनकप्रस्पर्धितेजोमयं
गम्भीरध्वनिमिश्रितोग्रदहनप्रोद्भासिताम्राधरम् ।
अर्धेन्दुद्युतिलोलपिङ्गलजटाभारप्रबद्धोरगं
वन्दे सिद्धसुरासुरेन्द्रनमितं पूर्वं मुखः शूलिनः ॥ १ ॥
कालभ्रभ्रमराञ्जनद्युतिनिभं व्यावृत्तपिङ्गेक्षणं
कर्णोद्भासितभोगिमस्तकमणि प्रोद्भिन्नदंष्ट्राङ्कुरम् ।
सर्पप्रोतकपालशुक्तिशकलव्याकीर्णसञ्चारगं
वन्दे दक्षिणमीश्वरस्य कुटिल भ्रूभङ्गरौद्रं मुखम् ॥ २ ॥
प्रालेयाचलचन्द्रकुन्दधवलं गोक्षीरफेनप्रभं
भस्माभ्यक्तमनङ्गदेहदहनज्वालावलीलोचनम् ।
ब्रह्मेन्द्रादिमरुद्गणैः स्तुतिपरैरभ्यर्चितं योगिभि-
-र्वन्देऽहं सकलं कलङ्करहितं स्थाणोर्मुखं पश्चिमम् ॥ ३ ॥
गौरं कुङ्कुमपङ्किलं सुतिलकं व्यापाण्डुगण्डस्थलं
भ्रूविक्षेपकटाक्षवीक्षणलसत्संसक्तकर्णोत्पलम् ।
स्निग्धं बिम्बफलाधरप्रहसितं नीलालकालङ्कृतं
वन्दे पूर्णशशाङ्कमण्डलनिभं वक्त्रं हरस्योत्तरम् ॥ ४ ॥
व्यक्ताव्यक्तगुणेतरं सुविमलं षट्त्रिंशतत्त्वात्मकं
तस्मादुत्तरतत्त्वमक्षरमिति ध्येयं सदा योगिभिः ।
वन्दे तामसवर्जितं त्रिणयनं सूक्ष्मातिसूक्ष्मात्परं
शान्तं पञ्चममीश्वरस्य वदनं खव्यापितेजोमयम् ॥ ५ ॥
इतर श्री शिव स्तोत्राणि पश्यतु ।
------> मेरे व्हाट्स ऐप चैनल से जुड़ें