109. Sri Hatkeshwar Ashtakam – श्री हाटकेश्वराष्टकम्
Read in: తెలుగు | ಕನ್ನಡ | தமிழ் | देवनागरी | English | മലയാളം

109. Sri Hatkeshwar Ashtakam – श्री हाटकेश्वराष्टकम्

P Madhav Kumar

 जटातटान्तरोल्लसत्सुरापगोर्मिभास्वरं

ललाटनेत्रमिन्दुनाविराजमानशेखरम् ।
लसद्विभूतिभूषितं फणीन्द्रहारमीश्वरं
नमामि नाटकेश्वरं भजामि हाटकेश्वरम् ॥ १ ॥

पुरान्धकादिदाहकं मनोभवप्रदाहकं
महाघराशिनाशकं अभीप्सितार्थदायकम् ।
जगत्त्रयैककारकं विभाकरं विदारकं
नमामि नाटकेश्वरं भजामि हाटकेश्वरम् ॥ २ ॥

मदीय मानसस्थले सदाऽस्तु ते पदद्वयं
मदीय वक्त्रपङ्कजे शिवेति चाक्षरद्वयम् ।
मदीय लोचनाग्रतः सदाऽर्धचन्द्रविग्रहं
नमामि नाटकेश्वरं भजामि हाटकेश्वरम् ॥ ३ ॥

भजन्ति हाटकेश्वरं सुभक्तिभावतोत्रये
भजन्ति हाटकेश्वरं प्रमाणमात्र नागराः ।
धनेन तेज साधिकाः कुलेन चाऽखिलोन्नताः
नमामि नाटकेश्वरं भजामि हाटकेश्वरम् ॥ ४ ॥

सदाशिवोऽहमित्यहर्निशं भजेत यो जनाः
सदा शिवं करोति तं न संशयोऽत्र कश्चन ।
अहो दयालुता महेश्वरस्य दृश्यतां बुधा
नमामि नाटकेश्वरं भजामि हाटकेश्वरम् ॥ ५ ॥

धराधरात्मजापते त्रिलोचनेश शङ्करं
गिरीश चन्द्रशेखराऽहिराजभूषणेश्वरः ।
महेश नन्दिवाहनेति सङ्घटन्नहर्निशं
नमामि नाटकेश्वरं भजामि हाटकेश्वरम् ॥ ६ ॥

महेश पाहि मां मुदा गिरीश पाहि मां सदा
भवार्णवे निमज्जतस्त्वमेव मेऽसि तारकः ।
करावलम्बनं झटित्यहोऽधुना प्रदीयतां
नमामि नाटकेश्वरं भजामि हाटकेश्वरम् ॥ ७ ॥

धराधरेश्वरेश्वरं शिवं निधीश्वरेश्वरं
सुरासुरेश्वरं रमापतीश्वरं महेश्वरम् ।
प्रचण्ड चण्डिकेश्वरं विनीत नन्दिकेश्वरं
नमामि नाटकेश्वरं भजामि हाटकेश्वरम् ॥ ८ ॥

हाटकेशस्य भक्त्या यो हाटकेशाष्टकं पठेत् ।
हाटकेश प्रसादेन हाटकेशत्वमाप्नुयात् ॥ ९ ॥

इति श्री हाटकेश्वराष्टकम् ।


इतर श्री शिव स्तोत्राणि पश्यतु ।

 ------> मेरे व्हाट्स ऐप चैनल से जुड़ें

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!
💬 Chat 📢 Follow