88. Kalki Krita Shiva Stotram – श्री शिव स्तोत्रम् (कल्कि कृतम्)
Read in: తెలుగు | ಕನ್ನಡ | தமிழ் | देवनागरी | English | മലയാളം

88. Kalki Krita Shiva Stotram – श्री शिव स्तोत्रम् (कल्कि कृतम्)

P Madhav Kumar

 गौरीनाथं विश्वनाथं शरण्यं

भूतावासं वासुकीकण्ठभूषम् ।
त्र्यक्षं पञ्चास्यादिदेवं पुराणं
वन्दे सान्द्रानन्दसन्दोहदक्षम् ॥ १ ॥

योगाधीशं कामनाशं करालं
गङ्गासङ्गक्लिन्नमूर्धानमीशम् ।
जटाजूटाटोपरिक्षिप्तभावं
महाकालं चन्द्रफालं नमामि ॥ २ ॥

श्मशानस्थं भूतवेतालसङ्गं
नानाशस्त्रैः खड्गशूलादिभिश्च ।
व्यग्रात्युग्रा बाहवो लोकनाशे
यस्य क्रोधोद्भूतलोकेऽस्तमेति ॥ ३ ॥

यो भूतादिः पञ्चभूतैः सिसृक्षु-
स्तन्मात्रात्मा कालकर्मस्वभावैः ।
प्रहृत्येदं प्राप्य जीवत्वमीशो
ब्रह्मानन्दे रमते तं नमामि ॥ ४ ॥

स्थितौ विष्णुः सर्वजिष्णुः सुरात्मा
लोकान्साधून् धर्मसेतून्बिभर्षि ।
ब्रह्माद्यंशे योऽभिमानी गुणात्मा
शब्दाद्यङ्गैस्तं परेशं नमामि ॥ ५ ॥

यस्याज्ञया वायवो वाति लोके
ज्वलत्यग्निः सविता याति तप्यन् ।
शीतांशुः खे तारका सङ्ग्रहश्च
प्रवर्तन्ते तं परेशं प्रपद्ये ॥ ६ ॥

यस्य श्वासात्सर्वधात्री धरित्री
देवो वर्षत्यम्बुकालः प्रमाता ।
मेरोर्मध्ये भूवनानां च भर्ता
तमीशानं विश्वरूपं नमामि ॥ ७ ॥

इति श्रीकल्किपुराणे कल्किकृत शिवस्तोत्रम् ।


इतर श्री शिव स्तोत्राणि पश्यतु ।

 ------> मेरे व्हाट्स ऐप चैनल से जुड़ें

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!
💬 Chat 📢 Follow