Read in: తెలుగు | ಕನ್ನಡ | தமிழ் | देवनागरी | English | മലയാളം | ગુજરાતી | मराठी |

Aishwaryadayaka Batuka Bhairava Kavacham – श्री बटुकभैरव कवचम् (ऐश्वर्यदायकम्)

P Madhav Kumar
देव्युवाच ।

देवदेव जगन्नाथ त्रिनाथ श्रीत्रिलोचन ।
भवत् प्रसादाद्भगवन् भैरवस्य महात्मनः ।
कवचं श्रोतुमिच्छामि त्वत्स्नेहातिशयादहम् ॥ १ ॥

शिव उवाच ।
प्राणिनां रक्षणार्थं च ब्रवीमि सुमुखे गुणान् ।
वर्मणो भैरवस्यास्य शिवब्रह्मा ऋषिः स्मृतः ॥ २ ॥

छन्दोऽनुष्टुप् तथा देवो भैरवो बटुकात्मजः ।
ऐश्वर्यस्याभिवृद्ध्यर्थमिष्टार्थं च नियुज्यते ॥ ३ ॥

ध्यानम् –
शूलखड्गडमरूलसत्करं
सव्यहस्तमपरं करोज्ज्वलम् ।
सन्ततं हृदि भजामि भैरवं
स्वाधिरूढमधिकारसिद्धये ॥ ४ ॥

दिग्वाससं कमलपत्रविशालनेत्रं
भस्माङ्गरागमभयं प्रभुमादिदेवम् ।
ध्यायामि तं बटुकनाथमहर्निशं मे
सर्वार्थसिद्धिमतुलां कृपया दिशन्तम् ॥ ५ ॥

एवं ध्यात्वा तु देवेशं बटुकाख्यं महाबलम् ।
उच्चरेत्कवचं पश्चाद्देवताभीष्टसिद्धिदम् ॥ ६ ॥

कवचं –
शिरो मे भैरवः पातु भालं पुरनिषूदनः ।
दृशौ पातु त्रिनेत्रो मे श्रवणं नीलकण्ठकः ॥ ७ ॥

दिग्वासा मे पातु कण्ठं नासिकाभगकन्यभाक् ।
ओष्ठौ त्रिपुरघाती मे जिह्वां पातु कपालधृक् ॥ ८ ॥

दन्तान् पातु क्रतुध्वंसी चिबुकं भूतवासकः ।
कपाली पातु मे ग्रीवां स्कन्धौ पातु गजान्तकः ॥ ९ ॥

भुजौ मे पातु कौमारो हृदयं क्षेत्रपालकः ।
अभीरुर्मे स्तनौ पातु वक्षः पातु महेश्वरः ॥ १० ॥

कुक्षौ मे पातु संहर्ता नाभिं मे षण्मुखप्रियः ।
भूतनाथः कटिं पातु गुह्यं पातु जटाधरः ॥ ११ ॥

ऊरू पातु वृषारूढो जानुनी भूतभावनः ।
श्मशानवासी मे पातु पातु सर्वाङ्गमीश्वरः ॥ १२ ॥

फलश्रुतिः –
य इदं कवचं देवि पठेत् प्रयतमानसः ।
तस्यैश्वर्याभिवृद्ध्यर्थमिष्टान्नं च ददाम्यहम् ॥ १३ ॥

रोगार्तो मुच्यते रोगात्पुत्रार्थी लभते सुतान् ।
जपित्वा श्रद्धया कन्या आयुष्मन्तं पतिं लभेत् ॥ १४ ॥

विद्याविनयसम्पन्नं सुकुलीनं सुरूपिणम् ।
जपित्वा विधवा नारी वैधव्यं नाप्नुयात्क्वचित् ॥ १५ ॥

जपित्वा कवचं प्रातर्मुच्यते नात्र संशयः ।
नास्ति तस्यापमृत्युश्चाकालमृत्युः कदाचन ॥ १६ ॥

इहलोके सुखं भुक्त्वा पुत्रपौत्रैः सुबान्धवैः ।
अन्ते कैलासमाविश्य मम पादतलं व्रजेत् ।
तस्मात्सर्वप्रयत्नेन जपेन्नित्यमतन्द्रितः ॥ १७ ॥

ये भक्तियुक्ताः कवचं पठन्ति
ते वै कुले स्वे कुलिनो वसन्ति ।
तेजोऽधिकं विंशतिसङ्ख्यया दिने
कैलासमाप्नोति मम प्रसादात् ॥ १८ ॥

एतत्ते कथितं देवि यन्मां त्वं परिपृच्छसि ।
त्वत्स्नेहातिशयादुक्तं कवचं भैरवात्मकम् ॥ १९ ॥

इति श्री बटुकभैरव कवचम् ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!
📢 Follow