भगवन् सर्ववेत्ता त्वं देवानां प्रीतिदायकम् ।
भैरवं कवचं ब्रूहि यदि चास्ति कृपा मयि ॥ १ ॥
प्राणत्यागं करिष्यामि यदि नो कथयिष्यसि ।
सत्यं सत्यं पुनः सत्यं सत्यमेव न संशयः ॥ २ ॥
इत्थं देव्या वचः श्रुत्वा प्रहस्याति स्वयं प्रभुः ।
उवाच वचनं तत्र देवदेवो महेश्वरः ॥ ३ ॥
ईश्वर उवाच ।
बटुककवचं दिव्यं शृणु मत्प्राणवल्लभे ।
चण्डिकातन्त्रसर्वस्वं बटुकस्य विशेषतः ॥ ४ ॥
तत्र मन्त्राद्यक्षरं तु वासुदेवस्वरूपकम् ।
शङ्खवर्णद्वयो ब्रह्मा बटुकं चन्द्रशेखरः ॥ ५ ॥
आपदुद्धारणो देवो भैरवः परिकीर्तितः ।
प्रवक्ष्यामि समासेन चतुर्वर्गप्रसिद्धये ॥ ६ ॥
प्रणवं कामदं विद्याल्लज्जाबीजं च सिद्धिदम् ।
बटुकायेति विज्ञेयं महापातकनाशनम् ॥ ७ ॥
आपदुद्धारणायेति त्वापदुद्धारणं नृणाम् ।
कुरु द्वयं महेशानि मोहने परिकीर्तितम् ॥ ८ ॥
बटुकाय महेशानि स्तम्भने परिकीर्तितम् ।
लज्जाबीजं तथा विद्यान्मुक्तिदं परिकीर्तितम् ।
द्वाविंशत्यक्षरो मन्त्रः क्रमेण जगदीश्वरि ॥ ९ ॥
[* मनुः – ओं ह्रीं बटुकाय आपदुद्धारणाय कुरु कुरु बटुकाय ह्रीम् । *]
अस्य श्रीबटुकभैरवब्रह्मकवचस्य भैरव ऋषिः अनुष्टुप् छन्दः श्रीबटुकभैरवो देवता मम श्रीबटुकभैरवप्रसादसिद्ध्यर्थे जपे विनियोगः ॥
अथ कवचम् ।
ओं पातु शिरसि नित्यं पातु ह्रीं कण्ठदेशके ॥ १० ॥
बटुकाय पातु नाभौ चापदुद्धारणाय च ।
कुरु द्वयं लिङ्गमूले त्वाधारे वटुकाय च ॥ ११ ॥
सर्वदा पातु ह्रीं बीजं बाह्वोर्युगलमेव च ।
षडङ्गसहितो देवो नित्यं रक्षतु भैरवः ॥ १२ ॥
ओं ह्रीं बटुकाय सततं सर्वाङ्गं मम सर्वदा ।
ओं ह्रीं पादौ महाकालः पातु वीरासनो हृदि ॥ १३ ॥
ओं ह्रीं कालः शिरः पातु कण्ठदेशे तु भैरवः ।
गणराट् पातु जिह्वायामष्टभिः शक्तिभिः सह ॥ १४ ॥
दण्डपाणिर्गुह्यमूले भैरवीसहितस्तथा ।
विश्वनाथः सदा पातु सर्वाङ्गं मम सर्वदा ॥ १५ ॥
अन्नपूर्णा सदा पातु चांसौ रक्षतु चण्डिका ।
असिताङ्गः शिरः पातु ललाटं रुरुभैरवः ॥ १६ ॥
चण्डभैरवः पातु वक्त्रं कण्ठं श्रीक्रोधभैरवः ।
उन्मत्तभैरवः पातु हृदयं मम सर्वदा ॥ १७ ॥
नाभिदेशे कपाली च लिङ्गे भीषणभैरवः ।
संहारभैरवः पातु मूलाधारं च सर्वदा ॥ १८ ॥
बाहुयुग्मं सदा पातु भैरवो मम केवलम् ।
हंसबीजं हृदि पातु सोऽहं रक्षतु पादयोः ॥ १९ ॥
प्राणापानौ समानं च उदानं व्यानमेव च ।
रक्षन्तु हारमूले च दशदिक्षु समन्ततः ॥ २० ॥
प्रणवः पातु सर्वाङ्गं लज्जाबीजं महाभये ।
इति श्रीब्रह्मकवचं भैरवस्य प्रकीर्तितम् ॥ २१ ॥
चतुवर्गप्रदं नित्यं स्वयं देवप्रकाशितम् ।
यः पठेच्छृणुयान्नित्यं धारयेत्कवचोत्तमम् ॥ २२ ॥
सदानन्दमयो भूत्वा लभते परमं पदम् ।
य इदं कवचं देवी चिन्तयेन्मन्मुखोदितम् ॥ २३ ॥
कोटिजन्मार्जितं पापं विनश्यति च तत् क्षणात् ।
जलमध्येऽग्निमध्ये वा दुर्ग्रहे शत्रुसङ्कटे ॥ २४ ॥
कवचस्मरणाद्देवि सर्वत्र विजयी भवेत् ।
भक्तियुक्तेन मनसा कवचं पूजयेद्यदि ॥ २५ ॥
कामतुल्यस्तु नारीणां रिपूणां च यमोपमः ।
तस्य पादाम्बुजद्वन्दं राज्ञां मुकुटभूषणम् ॥ २६ ॥
तस्य भूतिं विलोक्यैव कुबेरोऽपि तिरस्कृतः ।
अस्य विज्ञानमात्रेण मन्त्रसिद्धिर्न संशयः ॥ २७ ॥
इदं कवचमज्ञात्वा यो जपेद्बटुकं नरः ।
न चाप्नोति फलं तस्य परं नरकमाप्नुयात् ॥ २८ ॥
मन्वन्तरत्रयं स्थित्वा तिर्यग्योनिषु जायते ।
इहलोके महारोगी दारिद्र्येणातिपीडितः ॥ २९ ॥
शत्रूणां वशगो भूत्वा करपात्री भवेज्जडः ।
देयं पुत्राय शिष्याय शान्ताय प्रियवादिने ॥ ३० ॥
कार्पण्यरहितायालं बटुभक्तिरताय च ।
यः परस्मै प्रदाता वै तस्य तस्यातिसत्वरम् ॥ ३१ ॥
आयुर्विद्या यशो धर्मं बलं चैव न संशयः ।
इति ते कथितं देवि गोपनीयं स्वयोनिवत् ॥ ३२ ॥
इति श्रीरुद्रयामले श्री बटुकभैरव ब्रह्म कवचम् ॥
