गजानन नामावलि स्तोत्र

P Madhav Kumar


ॐ गणञ्जयो गणपतिर्हेरम्बो धरणीधरः।ॐ गणञ्जयो गणपतिर्हेरम्बो धरणीधरः।महागणपतिर्लक्षप्रदः क्षिप्रप्रसादनः।अमोघसिद्धिरमितो मन्त्रश्चिन्तामणिर्निधिः।सुमङ्गलो बीजमाशापूरको वरदः शिवः।काश्यपो नन्दनो वाचासिद्धो ढुण्ढिर्विनायकः।मोदकैरेभिरत्रैकविंशत्या नामभिः पुमान्।यः स्तौति मद्गतमना ममाराधनतत्परः।स्तुतो नाम्नां सहस्रेण तेनाहं नात्र संशयः।नमो नमः सुरवरपूजिताङ्घ्रये नमो नमो निरुपममङ्गलात्मने।नमो नमो विपुलकरैकसिद्धये नमो नमः करिकलमाननाय ते।किङ्किणीगणरणितस्तव चरणः प्रकटितगुरुमितिचारित्रगणः।मदजललहरिकलितकपोलः शमयतु दुरितङ्गणपतिनृपनामा।

 

Ramaswamy Sastry and Vighnesh Ghanapaathi

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!
Follow Me Chat