#श्रीनर्मदासहस्रनामस्तोत्रम्

P Madhav Kumar

 
श्री गुरुभ्यो नमः ।
ॐ श्री गणेशाय नमः ।
श्री नर्मदायै नमः ।
विनियोगः
अस्य श्रीनर्मदासहस्रनामस्तोत्रमालामन्त्रस्य रुद्र ऋषिर्विराट्छन्दः
श्रीनर्मदादेवता ह्रीं बीजं श्रीशक्तिः स्वाहाकीलकं
श्रीनर्मदाप्रसादसिद्ध्यर्थे पठने पूजने सहस्रार्चने च विनियोगः ।

ऋष्यादि न्यासः
रुद्रऋषये नमः । शिरसि
विराट्छन्दसे नमः । मुखे
श्रीनर्मदादेवतायै नमः । हृदये
ह्रीं बीजायै नमः । गुह्ये
श्रीं शक्तये नमः । पादयोः
स्वाहा कीलकाय नमः । नाभौ
श्रीनर्मदाप्रसादसिद्धयर्थे विनियोगाय नमः । सर्वाङ्गे

कराङ्गन्यासः
ॐ ह्रीं श्रीं नर्मदायै स्वाहा इति नवार्णमन्त्रणे ।
अथवा
ॐ नमः अङ्गुष्ठाभ्यां नमः । हृदयाय नमः ।
ह्रीं नमः तर्जनीभ्यां नमः । शिरसे स्वाहा ।
ॐ नमः मध्यमाभ्यां नमः । शिखायै वषट् ।
नर्मदायै नमः अनामिकाभ्यां नमः । कवचाय हुम् ।
स्वाहा नमः कनिष्ठिकाभ्यां नमः । नेत्रत्रयाय वौषट् ।
ॐ ह्रीं श्रीं नर्मदायै स्वाहा
करतलकरपृष्ठाभ्यां नमः । अस्त्राय फट् ।
मूलेन त्रिर्व्यापकम् ।

ध्यानम्
ध्याये श्री सिद्धनाथां गणवहसरितां नर्मदां शर्म्मदात्रीं
श्यामां बालेव नीलाम्बरमुखनयनाम्भोजयुग्मैकमिन्दुम् ।
चूडाञ्चाभीतिमालां वरजलकरकां हस्तयुग्मे दधानां
तीर्थस्थां छत्रहस्तां झषवरनृपगां देशिकस्यासनाग्रे ॥ १॥

नर्मदे हरसम्भूते हरलिङ्गार्चनप्रिये ।
हरलिङ्गाञ्चिततटे जयाघं हर नर्मदे ॥ २॥

इति ध्यात्वा यन्त्रेऽथवा प्रवाहे मानसोपचारैः सम्पूज्य
नामस्तोत्रपाठं प्रत्येक नाममन्त्रेण पूजनं
वा समाचरेत्, यन्त्रस्वरूपं यथा
श्रीनर्मदायै नमः ।

अथ सहस्रनामस्तोत्रम् ।
नर्मदा नमनीया च नगेज्या नगरेश्वरी ।
नगमालावृततटा नगेन्द्रोदरसंसृता ॥ १॥

नदीशसङ्गता नन्दा नन्दिवाहनसन्नता ।
नरेन्द्रमालिनी नव्या नक्रास्या नर्मभाषिणी ॥ २॥

नरार्तिघ्ना नरेशानी नरान्तकभयापहा ।
नरकासुरहन्त्री च नक्रवाहनशोभना ॥ ३॥

नरप्रिया नरेन्द्राणी नरसौख्यविवर्धिनी ।
नमोरूपा च नक्रेशी नगजा नटनप्रिया ॥ ४॥

नन्दिकेश्वरसम्मान्या नन्दिकेशानमोहिनी ।
नारायणी नागकन्या नारायणपरायणा ॥ ५॥

नागसन्धारिणी नारी नागास्या नागवल्लभा ।
नाकिनी नाकगमना नारिकेलफलप्रिया ॥ ६॥

नादेयजलसंवासा नाविकैरभिसंश्रिता ।
निराकारा निरालम्बा निरीहा च निरञ्जना ॥ ७॥

नित्यानन्दा निर्विकारा निःशङ्का निश्रयात्मिका ।
नित्यरूपा निःस्पृहा च निर्लोभा निष्कलेश्वरी ॥ ८॥

निर्लेपा निश्चला नित्या निर्धूताननुमोदिनी ।
निर्मला निर्मलगतिर्निरामयसुवारिणी ॥ ९॥

नितम्बिनी च निर्दंष्ट्रा निर्धनत्वनिवारिणी ।
निर्विकारा निश्चयिनी निर्भ्रमा निर्जरार्थदा ॥ १०॥

निष्कलङ्का निर्जरा च निर्दोषा निर्झरा निजा ।
निशुम्भशुम्भदमनी निघ्ननिग्रहकारिणी ॥ ११॥

नीपप्रिया नीपरता नीचाचरणनिर्दया ।
नीलक्रान्ता नीरवाहा नीलालकविलासिनी ॥ १२॥

नुतिपात्रा नुतिप्रिया नुतपापनिवारिणी ।
नूतनालङ्कारसन्धात्री नूपुराभरणप्रिया ॥ १३॥

नेपथ्यरञ्जिता नेत्री नेदीयःस्वरभाजिनी ।
नैसर्गिकानन्ददात्री नैरुज्यकारिवारिणी ॥ १४॥

नन्दवर्धिनी नन्दयित्री नन्दकी नन्दरूपिणी ।
परमा परमेशाना पराधारा परमेश्वरी ॥ १५॥

पद्माभा पद्यनयना पद्मा पद्मदलप्रिया ।
पद्माक्षी पद्मवदना पद्ममालाविमूषिणी ॥ १६॥

पक्षाधारा पक्षिणी च पक्षेज्या परमेश्वरी ।
पशुप्रिया पशुरता पयःसम्मोहकारिणी ॥ १७॥

पथिप्रिया पथिरता पथिनी पथिरक्षिणी ।
पङ्ककर्करकूला च पङ्कग्राहसुसंयुता ॥ १८॥

प्रभावती प्रगल्भा च प्रभाजितजगत्तमा ।
अकृत्रिमप्रभारूपा परब्रह्मस्वरूपिणी ॥ १९॥

पापात्मानां पावयित्री पापजालनिवारिणी ।
पाकशासनवन्द्या च पापसन्तापहारिणी ॥ २०॥

पिकरूपा पिकेशी च पिकवाक् पिकवल्लभा ।
पीयूषाढ्यप्रपानीया पीतश्वेतादिवर्णिनी ॥ २१॥

पुरन्दरी पुण्ड्रधारी पुरुहूताभिवन्दिता ।
पुण्डरीकविशालाक्षी पुरुषार्थप्रदायिनी ॥ २२॥

पूता पूतोदका पूर्णा पूर्वगङ्गा च पूरिता ।
पञ्चमी पञ्चप्रेमा च पण्डिता पङ्कजेश्वरी ॥ २३॥

फलदा फलरूपा च फलेज्या फलवर्धिनी ।
फणिपाला फलेशी च फलावर्ज्या फणिप्रिया ॥ २४॥

बला बाला ब्रह्मरूपा ब्रह्मविष्णुशिवात्मिका ।
बदरीफलसन्दोहसंस्थिता बदरीप्रिया ॥ २५॥

बदर्याश्रमसंस्था च बकदाल्भ्यप्रपूजिता ।
बदरीफलसंस्नेहा बदरीफलतोषिणी ॥ २६॥

बदरीफलसम्पूज्या बदरीफलभाविता ।
बर्हिभीरञ्जिता चैव वहुला वहुमार्गगा ॥ २७॥

बाहुदण्डविलासिनी ब्राह्मी बुद्धिविवर्धिनी ।
भवानी भयहर्त्री च भवपाशविमोचिनी ॥ २८॥

भस्मचन्दनसंयुक्ता भयशोकविनाशिनी ।
भगा भगवती भव्या भगेज्या भगपूजिता ॥ २९॥

भावुका भास्वती भामा भ्रामरी भासकारिणी ।
भारद्वाजर्षिसम्पूज्या भासुरा भानुपूजिता ॥ ३०॥

भालिनी भार्गवी भासा भास्करानन्ददायिनी ।
भिक्षुप्रिया भिक्षुपाला भिक्षुवृन्दसुवन्दिता ॥ ३१॥

भीषणा भीमशौर्या च भीतिदा भीतिहारिणी ।
भुजगेन्द्रशयप्रीता भुविष्ठा भुवनेश्वरी ॥ ३२॥

भूतात्मिका भूतपाला भूतिदा भूतलेश्वरी ।
भूतभव्यात्मिका भूरिदा भूर्भूरिवारिणी । ३३॥

भूमिभोगरता भुमिर्भूमिस्था भूधरात्मजा ।
भूतनाथसदाप्रीता भूतनाथसुपूजिता ॥ ३४॥

भूदेवार्चितपादाब्जा भूधरावृतसत्तटा ।
भूतप्रिया भूपश्रीर्भूपरक्षिणी भूरिभूषणा ॥ ३५॥

भृशप्रवाहा भृतिदा भृतकाशाप्रपूरिता ।
भेदयित्री भेदकर्त्री भेदाभेदविवर्जिता ॥ ३६॥

भैरवप्रीतिपात्री च भैरवानन्दवर्धिनी ।
भोगिनी भोगदात्री च भोगकृद्भोगवर्धिनी ॥ ३७॥

भौमप्राणिहिताकाङ्क्षी भौमौषधिविवर्धिनी ।
महामाया महादेवी महिला च महेश्वरी ॥ ३८॥

महामोहापहन्त्री च महायोगपरायणा ।
मखानुकूला मखिनी मखभूस्तरभूषणा ॥ ३९॥

मनस्विनी महाप्रज्ञा मनोज्ञा मनोमोहिनी ।
मनश्चाञ्चल्यसंहर्त्री मनोमलविनाशिनी ॥ ४०॥

मदहन्त्री मथुमती मधुरा मदिरेक्षणा ।
मणिप्रिया मनःसंस्था मदनायुधरूपिणी ॥ ४१॥ var  मनीषिणी
मत्स्योदरी महागर्ता मकरावासरूपिणी ।
मानिनी मानदा मान्या मानैक्या मानमानिनी ॥ ४२॥

मार्गदा मार्जनरता मार्गिणी २०० मार्गणप्रिया ।
मितामितस्वरूपिणी मिहिका मिहिरप्रिया ॥ ४३॥

मीढुष्टमस्तुतपदा मीढुष्टा मीरगामिनी ।
मुक्तप्रवाहा मुखरा मुक्तिदा मुनिसेबिता ॥ ४४॥

मूल्यवद्वस्तुगर्भा च मूलिका मूर्तरूपिणी ।
मृगदृष्टिर्मृदुरवा मृतसञ्जीववारिणी ॥ ४५॥

मेधाविनी मेघपुष्टिर्मेघमानातिगामिनी ।
मोहिनी मोहहन्त्री च मोदिनी मोक्षदायिनी ॥ ४६॥

मन्त्ररूपा मन्त्रगर्भा मन्त्रविज्जनसेविता ।
यक्षिणी यक्षपाला च यक्षप्रीतिविवद्धिनी ॥ ४७॥

यक्षवारणदक्षा च यक्षसम्मोहकारिणी ।
यशोधरा यशोदा च यदुनाथविमोहिनी ॥ ४८॥

यज्ञानुकूला यज्ञाङ्गा यज्ञेज्या यज्ञवर्धिनी ।
याज्यौषधिसुसम्पन्ना यायजूकजनैःश्रिता ॥ ४९॥

यात्राप्रिया यात्रिकैः संव्याप्तभूर्यात्रिकार्थदा ।
युवती युक्तपदवी युवतीजनसन्नुता ॥ ५०॥

योगमाया योगसिद्धा योगिनी योगवर्धिनी ।
योगिसंश्रितकूला च योगिनां गतिदायिनी ॥ ५१॥

यन्त्रतन्त्रज्ञसञ्जुष्टा यन्त्रिणी यन्त्ररूपिणी ।
रमारूपा च रमणी रतिगर्वविभञ्जिनी ॥ ५२॥

रतिपूज्या रक्षिका च रक्षोगणविमोहिनी ।
रमणीयविशालाङ्गा रङ्गिणी रभसोगमा ॥ ५३॥

रघुराजार्चितपदा रघुवंशविवर्धिनी ।
राकेशवदना राज्ञी राजभोगविलासिनी ॥ ५४॥

राजकेलिसमाक्रान्ता रागिणी राजतप्रमा ।
रसप्रिया रासकेलिवर्धिनी रासरञ्जिनी ॥ ५५॥

रिक्थरेणुकणाकीर्णा रञ्जिनी रतिगामिनी ।
रुचिराङ्गा रुच्यनीरा रुक्माभरणमूषिता ॥ ५६॥

रूपातिसुन्दरा रेवा रैःप्रदायिनी रैणवी ।
रोचिष्मती रोगहर्त्री रोगिणाममृतोपमा ॥ ५७॥

रौक्ष्यहर्त्री रौद्ररूपा रंहगा रंहणप्रिया ।
लक्ष्मणा लक्षिणी लक्ष्मीर्लक्षणा ललिताम्बिका ॥ ५८॥

ललितालापसङ्गीता लवणाम्बुधिसङ्गता ।
लाक्षारुणपदा लास्या लावण्यपूर्णरूपिणी ॥ ५९॥

लालसाधिकचार्वङ्गी लालित्यान्वितभाषिणी ।
लिप्सापूर्णकरा लिप्सुवरदा च लिपिप्रिया ॥ ६०॥

लीलावपुर्धरा लीला लीलालास्यविहारिणी ।
ललिताद्रिशिरःपङ्क्तिर्लूतादिहारिवारिणी ॥ ६१॥

लेखाप्रिया लेखनिका लेख्यचारित्रमण्डिता ।
लोकमाता लोकरक्षा-लोकसङ्ग्रहकारिणी ॥ ६२॥

लोलेक्षणा च लोलाङ्गा लोकपालाभिपूजिता ।
लोभनीयस्वरूपा च लोभमोहनिवारिणी ॥ ६३।
लोकेशमुख्यवन्द्या च लोकबन्धुप्रहर्षिणी ।
वपुष्मद्वररूपा च वत्सला वरदायिनी ॥ ६४॥

वर्धिष्णुवारिनिवहा वक्रावक्रस्वरूपिणी ।
वरण्डकसुपात्रा च वनौषधिविवर्धिनी ॥ ६५॥

वज्रगर्मा वज्रधरा वशिष्ठादिमुनिस्तुता ।
वामा वाचस्पतिनुता वाग्मिनी वाग्विकासिनी ॥ ६६॥ var  वाग्देवी
वाद्यप्रिया च वाराही वाग्यतप्रियकूलिनी ।
वाद्यवर्धनपानीया वाटिकावर्धिनीतटा ॥ ६७॥

वानप्रस्थजनावासा वार्वटश्रेणिरञ्जिता ।
विक्रया विकसद्वक्त्रा विकटा च विलक्षणा ॥ ६८॥

विद्या विष्णुप्रिया विश्वम्भरा विश्वविमोहिनी ।
विश्वामित्रसमाराध्या विभीषणवरप्रदा ॥ ६९॥

विन्ध्याचलोद्भवा विष्टिकर्त्री च विबुधस्तुता ।
वीणास्यवर्णितयशा वीचिमालाविलोलिता ॥ ७०॥

वीरव्रतरता वीरा वीतरागिजनैर्नुता ।
वेदिनी वेदवन्द्या च वेदवादिजनैः स्तुता ॥ ७१॥

वेणुवेलासमाकीर्णा वेणुसंवादनप्रिया ।
वैकुण्ठपतिसम्प्रीता वैकुण्ठलग्नवामिका ॥ ७२॥

वैज्ञानिकधियोर्लक्ष्या वैतृष्ण्यकारिवारिणी ।
वैधात्रनुतपादाब्जा वैविध्यप्रियमानसा ॥ ७३॥

शर्वरी शवरीप्रीता शयालुः शयनप्रिया ।
शत्रुसम्मोहिनी शत्रुबुद्धिघ्नी शत्रुघातिनी ॥ ७४॥

शान्भवी श्यामला श्यामा शारदाम्बा च शार्ङ्गिणी ।
शिवा शिवप्रिया शिष्टा शिष्टाचारानुमोदिनी ॥ ७५॥

शीघ्रा च शीतला शीतगन्धपुष्पादिमण्डिता ।
शुभान्वितजनैर्लभ्या शुनासीरादिसेविता ॥ ७६॥

शूलिनी शूलघृक्पूज्या शूलादिहरवारिणी ।
शृङ्गाररञ्जिताङ्गा च शृङ्गारप्रियनिम्नगा ॥ ७७॥

शैवलिनी शेषरूपा शेषशाय्यभिपूजिता ।
शोभना शोभनाङ्गा च शोकमोहनिवारिणी ॥ ७८॥

शौचप्रिया शौरिमाया शौनकादिमुनिस्तुता ।
शंसाप्रिया शङ्करी शङ्कराचार्यादिसेविता ॥ ७२॥

शंवर्धिनी षडारातिनिहन्त्री षट्कर्मिसंश्रया ।
सर्वदा सहजा सन्ध्या सगुणा सर्वपालिका ॥ ८०॥

सर्वस्वरूपा सर्वेज्या सर्वमान्या सदाशिवा ।
सर्वकर्त्रीं सर्वपात्री सर्वस्था सर्वधारिणी ॥ ८१॥

सर्वधर्मसुसन्धात्री सर्ववन्द्यपदाम्बुजा ।
सर्वकिल्बिषहन्त्री च सर्वभीतिनिवारिणी ॥ ८२॥

सावित्री सात्त्विका साध्वी साधुशीला च साक्षिणी ।
सिताश्मरप्रतीरा च सितकैरवमण्डिता ॥ ८३॥

सीमान्विता सीकराम्भःसीत्काराश्रयकूलिनी ।
सुन्दरी सुगमा सुस्था सुशीला च सुलोचना ॥ ८४॥

सुकेशी सुखदात्री च सुलभा सुस्थला सुधा ।
सुवाचिनी सुमाया च सुमुखा सुव्रता सुरा ॥ ८५॥

सुधार्णवस्वरूपा च सुधापूर्णा सुदर्शना ।
सूक्ष्माम्बरधरा सूतवर्णिता सूरिपूजिता ॥ ८६॥

सृष्टिवर्धिनी च सृष्टिकर्तृभिः परिपूजिता ।
सेवाप्रिया सेवधिनी सेतुबन्धादिमण्डिता ॥ ८७॥

सैकतक्षोणिकूला च सैरिभादिसुखप्रिया ।
सोमरूपा सोमदात्री सोमशेखरमानिता ॥ ८८॥

सौरस्यपूर्णसलिला सौमेधिकजनाश्रया ।
सौशील्यमण्डिता सौम्या सौराज्यसुखदायिनी ॥ ८९॥

सौजन्ययुक्तसुलभा सौमङ्गल्यादिवर्धिनी ।
सौभाग्यदाननिपुणा सौख्यसिन्धुविहारिणी ॥ ९०॥

संविधानपरा संवित्सम्भाव्यपददायिनी ।
संश्लिष्टाम्बुधिसर्वाङ्गा सन्निधेयजलाश्रया ॥ ९१॥

हरिप्रिया हंसरूपा हर्वसंवर्धिनी हरा ।
हनुमत्प्रीतिमापन्ना हरिद्भूमिविराजिता ॥ ९२॥

हाटकालङ्कारभूषा च हार्यसद्गुणमण्डिता ।
हितसंस्पर्शसलिला हिमांशुप्रतिबिम्बिता ॥ ९३॥

हीरकद्युतियुक्ता च हीनकर्मविगर्हिता ।
हुतिकर्तृद्विजाधारा हूश्छर्दनक्षयकारिणी ॥ ९४॥

हृदयालुस्वभावा च हृद्यसद्गुणमण्डिता ।
हेमवर्णाभवसना हेमकञ्चुकिधारिणी ॥ ९५॥

होतृणां प्रियकूला च होम्यद्रव्यसुगर्भिता ।
हंसा हंसस्वरूपा च हंसिका हंसगामिनी ॥ ९६॥

क्षमारूपा क्षमापूज्या क्षमापृष्ठप्रवाहिनी ।
क्षमाकर्त्री क्षमोद्धर्त्री क्षमादिगुणमण्डिता ॥ ९७॥

क्षररूपा क्षरा चैव क्षरवस्त्वाश्रया तथा ।
क्षपाकरकरोल्लासिनी क्षपाचरहारिणी ॥ ९८॥

क्षान्ता क्षान्तिगुणोपेता क्षामादिपरिहारिणी ।
क्षिप्रगा क्षित्यलङ्कारा क्षितिपालसमाहिता ॥ ९९॥

क्षीणायुर्जनपीयूषा क्षीणकिल्बिषसेविता ।
क्षेत्रियादिनियन्त्री च क्षेमकार्यसुतत्परा ॥ १००॥

क्षेत्रसंवर्धिनी चैव क्षेत्रैकजीवनाश्रया ।
क्षोणीभृदावृतपदा क्षौमाम्बरविभूषिता ॥ १०१॥

क्षन्तव्यगुणगम्भीरा क्षन्तुकर्मैकतत्परा ।
ज्ञप्तिवर्धनशीला च ज्ञस्वरूपा ज्ञमातृका ॥ १०२॥

ज्ञानस्वरूपव्यक्ता च ज्ञातृसंवर्धिनी तथा ।
अम्बाशोकाऽञ्जना चैव अनिरुद्धाग्निस्वरूपिणी ॥ १०३॥

अनेकात्मस्वरूपा चामरेश्वरसुपूजिता ।
अव्ययाक्षररूपा चापाराऽगाधस्वरूपिणी ॥ १०४॥

अव्याहतप्रवाहा च ह्यविश्रान्तक्रियात्मिका ।
आदिशक्तिरादिमाया आकीर्णनिजरूपिणी ॥ १०५॥

आदृतात्मस्वरूपा चामोदपूर्णवपुष्मती ।
आसमन्तादार्षपादा ह्यामोदनसुपूर्णभूः ॥ १०६॥

आतङ्कदारणगतिरालस्यवाहनस्थिता ।
इष्टदानमहोदारा इष्टयोग्यसुभूस्तुता ॥ १०७॥

इन्दिरारमणाराध्या इन्दुधृक्पूजनारता ।
इन्द्राद्यमरवन्द्याङ्घ्रिरिङ्गितार्थप्रदायिनी ॥ १०८॥

ईश्वरी चेतिहन्त्री च ईतिभीतिनिवारिणी ।
ईप्सूनां कल्पवल्लरिरुक्थशीलवती तथा ॥ १०९॥

उत्तानगतिवाहा चोच्चोच्चावचपदापगा ।
उत्साहिजनसंसेव्या चोत्फुल्लतरुकूलिनी ॥ ११०॥

ऊर्जस्विनी चोर्जिता च ऊर्ध्वलोकप्रदायिनी ।
ऋणहर्तृस्तोत्रतुष्टा ऋद्धितार्णनिवारिणी ॥ १११॥

ऐष्टव्यपदसन्धात्री ऐहिकामुष्मिकार्थदा ।
ओजस्विनी ह्योजोवती ह्यौदार्यगुणभाजिनी ॥ ११२॥

कल्याणी कमला कञ्जधारिणी कमलावती ।
कमनीयस्वरूपा च कटकाभरणान्यिता ॥ ११३॥

काशी काञ्ची च कावेरी कामदा कार्यवर्धिनी ।
कामाक्षी कामिनी कान्तिः कामातिसुन्दराङ्गिका ॥ ११४॥

कार्तवीर्यक्रीडिताङ्गा कार्तवीर्यप्रबोधिनी ।
किरीटकुण्डलालङ्कारार्चिता किङ्करार्थदा ॥ ११५॥

कीर्तनीयगुणागारा कीर्तनप्रियमानसा ।
कुशावर्तनिवासा च कुमारी कुलपालिका ॥ ११६॥

कुरुकुल्ला कुण्डलिनी कुम्भा कुम्भीरवाहिनी ।
कूपिका कूर्दनवती कूपा कूपारसङ्गता ॥ ११७॥

कृतवीर्यविलासाढ्या कृष्णा कृष्णगताश्रया ।
केदारावृतमूभागा केकीशुकपिकाश्रया ॥ ११८॥

कैलासनाथसन्धात्री कैवल्यदा च कैटभा ।
कोशला कोविदनुता कोमला कोकिलस्वना ॥ ११९॥

कौशेयी कौशिकप्रीता कौशिकागारवासिनी ।
कञ्जाक्षी कञ्जवदना कञ्जपुष्पसदाप्रिया ॥ १२०॥

कञ्जकाननसञ्चारी कञ्जमालासुसन्धृता ॥

खगासनप्रिया खड्गपाणिनी खर्परायुधा ॥ १२१॥

खलहन्त्री च खट्वाङ्गधारिणी खगगामिनी ।
खादिपञ्चमहाभूतरूपा खवर्धनक्षमा ॥ १२२॥

गणतोषिणी गम्भीरा गणमान्या गणाधिपा ।
गणसंरक्षणपरा गणस्था गणयन्त्रिणी ॥ १२३॥

गण्डकी गन्धसलिला गङ्गा च गरुडप्रिया ।
गलगण्डापहर्त्री च गदहारिसुवारिणी ॥ १२४॥

गायत्री चैव तस्याग्रे गाधेयार्चितसत्पदा ।
गाथाप्रिया गाढवहा गारुत्मततटाकिनी ॥ १२५॥

गिरिजा गिरीशतनया गिरीशप्रेमवर्धिनी ।
गीर्वाणी गीष्पतिनुता गीतिकाप्रियमानसा ॥ १२६॥

गुडाकेशार्चनपरा गुरूरहःप्रवाहिनी ।
गेही सर्वार्थदात्री च गेयोत्तमगुणान्यिता ॥ १२७॥

गोधना गोपना गोपी गोपालकसदाप्रिया ।
गोत्रप्रिया गोपवृता गोकुलावृतसत्तटा ॥ १२८॥

गौरी गौराङ्गिणी गौरा गौतमी गौतमप्रिया ।
घनप्रिया घनरवा घनौघा घनवर्धिनी ॥ १२९॥

घनार्तिहर्त्री घनरुक्परिहर्त्री घनद्युतिः ।
घनपापौघसंहर्त्री घनक्लेशनिवारिणी ॥ १३०॥

घनसारार्तिकप्रीता घनसम्मोहहारिणी ।
घर्माम्बुपरिहर्त्री च घर्मान्तघर्महारिणी ॥ १३१॥

घर्मान्तकालसङ्क्षीणा घनागमसुहर्षिणी ।
घट्टद्विपार्श्वानुगता घट्टिनी घट्टभूषिता ॥ १३२॥

चतुरा चन्द्रवदना चन्द्रिकोल्लासचञ्चला ।
चम्पकादर्शचार्वङ्गी चपला चम्पकप्रिया ॥ १३३॥

चलत्कुण्डलचिन्मौलिचक्षुषी चन्दनप्रिया ।
चण्डमुण्डनिहन्त्री च चण्डिका चण्डविक्रमा ॥ १३४॥

चारुरूपा चारुगात्री चारुचन्द्रसमानना ।
चार्वीक्षणा चारुनासा चारुपट्टांशुकावृता ॥ १३५॥

चारुचन्दनलिप्ताङ्गा चार्वलङ्कारमण्डिता ।
चामीकरसुशोभाढ्या चापखर्परधारिणी ॥ १३६॥

चारुनक्रवरस्था च चातुराश्रम्यजीविनी ।
चित्रिताम्बरसम्भूषा चित्रा चित्रकलाप्रिया ॥ १३७॥

चीनकार्तिक्यसम्प्रीता चीर्णचारित्रमण्डना ।
चुलुम्बकरणासक्ता चुम्बनास्वादतत्परा ॥ १३८॥

चूडामणिसुशोभाढ्या चूडालङ्कृतपाणिनी ।
चूलकादिसुभक्ष्या च चूष्यास्वादनतत्परा ॥ १३९॥

चेतोहरस्वरूपा च चेतोविस्मयकारिणी ।
चेतसां मोदयित्री च चेतसामतिपारगा ॥ १४०॥

चैतन्यघटिताङ्गा च चैतन्यलीनभाविनी ।
चोक्ष्यव्यवहारवती चोद्यप्रकृतिरूपिणी ॥ १४१॥

चोक्ष्यस्वरूपा चोक्ष्याङ्गी चोक्ष्यात्मनां समीपिनी ।
छत्ररूपा छटाकारा छर्दिनी छत्रकान्विता ॥ १४२॥

छत्रप्रिया छन्नमुखी छन्दोनुतयशस्विनी ।
छान्दसाश्रितसत्कूला छायाग्राह्या छिद्रात्मिका ॥ १४३॥ var  चिदात्मिका
जनयित्री च जननी जगन्माता जनार्तिहा ।
जयरूपा जगदद्धात्री जवना जनरञ्जना ॥ १४४॥

जगज्जेत्री च जगदानन्दिनी जगदम्बिका ।
जनशोकहरा जन्तुजीविनी जलदायिनी ॥ १४५॥

जडताघप्रशमनी जगच्छान्तिविधायिनी ।
जनेश्वरनिवासिनी जलेन्धनसमन्विता ॥ १४६॥

जलकण्टकसंयुक्ता जलसङ्क्षोभकारिणी ।
जलशायिप्रिया जन्मपाविनी जलमूर्तिनी ॥ १४७॥

जलायुतप्रपाता च जगत्पालनतत्परा ।
जानकी जाह्नवी जाड्यहन्त्री जानपदाश्रया ॥ १४८॥

जिज्ञासुजनजिज्ञास्या जितेन्द्रियसुगोचरा ।
जीवानां जन्महेतुश्च जीवनाधाररूपिणी ॥ १४९॥

झषसङ्ख्याकुलाधानी झषराजायुताकुला ।
झञ्झनध्यनिप्रीता च झञ्झानिलसमर्दिता ॥ १५०॥

टट्टरश्रवणप्रीता ठक्कुरश्रवणप्रिया ।
डयनारोहसञ्चारी डमरीवाद्यसत्प्रिया ॥ १५१॥

डाङ्कृतध्वनिसम्प्रीता डिम्बिकाग्रहणोद्यता ।
ढुण्ढिराजप्रियकरा ढुण्ढिराजप्रपूजिता ॥ १५२॥

तन्तुवाद्यप्रिया तन्त्री तन्त्रिणी तपमानिनी ।
तरङ्गिणी च तटिनी तरुणी च तपस्विनी ॥ १५३॥

तपिनी च तमोहन्त्री तपती तत्त्ववेदिनी ।
तत्त्वप्रिया च तन्वङ्गी तपोऽर्थीयसुभूमिका ॥ १५४॥

तपश्चर्यावतां त्रात्री तपिष्णुजनवारिणी ।
तन्द्रादिविघ्नसंहर्त्री तमोजालनिवारिणी ॥ १५५॥

तापत्रितयसंहर्त्री तापापहारिवारिणी ।
तितिक्षुजनसंवासा तितिक्षावृत्तिवर्धिनी ॥ १५६॥

तीव्रस्यन्दा तीव्रगा च तीर्थभूस्तीर्थिकाश्रया ।
तुङ्गकेशरकूलाढ्या तुरासाहादिभिर्नुता ॥ १५७॥

तुर्यार्थदाननिपुणा तूर्णिनी तूर्णरंहिणी ।
तेजोमयी तेजसोऽब्धिरिति नामसमर्चिता ॥ १५८॥

तैजसानामथिष्ठात्री तैतिक्षूणां सहायिका ।
तोषवार्धिश्च तोषैकगुणिनी तोषभाजिनी ॥ १५९॥

तोषिकान्वितभूयुक्तपृष्ठिनीपदसंयुता ।
दत्तहस्ता दर्पहरा दमयन्ती दयार्णवा ॥ १६०॥

दर्शनीया दर्शयित्री दक्षिणोत्तरकूलिनी ।
दस्युहन्त्री दुर्भरिणी दयादक्षा च दर्शिनी ॥ १६१॥

दानपूज्या तथा चैव दानमानसुतोषिता ।
दारकौघवती दात्री दारुणार्तिनिवारिणी ॥ १६२॥

दारिद्र्यदुःखसंहर्त्री दानवानीकनाशिनी ।
दिण्डीरस्वनसन्तुष्टा दिवौकससमर्चिता ॥ १६३॥

दीनानां धनसन्दात्री दीनदैन्यनिवारिणी ।
दीप्तदीपोल्लासवती दीपाराधनसत्प्रिया ॥ १६४॥

दुरारातिहरा दुःखहन्त्री दुर्वासःसन्नुता ।
दुर्लभा दुर्गतिहरा दुःखार्तिविनिवारिणी ॥ १६५॥

दुर्वारवारिनिवहा दुर्गा दुर्भिक्षहारिणी ।
दुर्गरूपा च दुरन्तदूरा दुष्कृतिहारिणी ॥ १६६॥

दूनदुःखनिहन्त्री च दूरदर्शिनिषेविता ।
धन्या धनेशमान्या च धनदा धनवर्धिनी ॥ १६७॥

धरणीधरमान्या च धर्मकर्मसुवर्धिनी ।
धामिनी धामपूज्या च धारिणी धातुजीविनी ॥ १६८॥

धाराधरी धावका च धार्मिका धातुवर्धिनी ।
धात्री च धारणारूपा धावल्यपूर्णवारिणी ॥ १६९॥

धिप्सुकापट्यहन्त्री च धिषणेन सुपूजिता ।
धिष्ण्यवती धिक्कृतांहा धिक्कृताततकर्दमा ॥ १७०॥

धीरा च धीमती धीदा धीरोदात्तगुणान्विता ।
धुतकल्मषजाला च धुरीणा धुर्वहा धुनी ॥ १७१॥

धूर्तकैतवहारिणी धूलिव्यूहप्रवाहिनी ।
धूम्राक्षहारिणी धूमा धृष्टगर्वापहा धृतिः ॥ १७२॥

धृतात्मनी धृतिमती धृतिपूज्यशिवोदरा ।
धेनुसङ्गतसर्वाङ्गा ध्येया धेनुकजीविनी ॥ १७३॥

नानारूपवती नानाधर्मकर्मस्वरूपिणी ।
नानार्थपूर्णावतारा सर्वनामस्वरूपिणी ॥ १७४॥

॥ ॐ श्रीनर्मदार्पणमस्तु ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!
Follow Me Chat