#गङ्गाष्टकं सत्यज्ञानानन्दतीर्थकृत

P Madhav Kumar

  

श्रीगणेशाय नमः ॥


यदवधि तव नीरं पातकी नैति गङ्गे

       तदवधि मलजालैर्नैव मुक्तः कलौ स्यात् ।

तव जलकणिकाऽलं पापिनां पापशुद्धयै

       पतितपरमदीनांस्त्वं हि पासि प्रपन्नान् ॥ १॥


तव शिवजललेशं वायुनीतं समेत्य

       सपदि निरयजालं शून्यतामेति गङ्गे ।

शमलगिरिसमूहाः प्रस्फुण्टति प्रचण्डास्त्वयि

       सखि विशतां नः पापशङ्का कुतः स्यात् ॥ २॥


तव शिवजलजालं निःसृतं यर्हि

       गङ्गे सकलभुवनजालं पूतपूतं तदाऽभूत् ।

यमभटकलिवार्ता देवि लुप्ता यमोऽपि

       व्यधिकृतवरदेहाः पूर्णकामाः सकामाः ॥ ३॥


मधुमधुवनपूगै रत्नपूगैर्नृपूगैर्-

       मधुमधुवनपूगैर्देवपूगैः सपूगैः ।

पुरहरपरमाङ्गे भासि मायेव गङ्गे शमयसि

       विषतापं देवदेवस्य वन्द्यम् ॥ ४॥


चलितशशिकुलाभैरुत्तरङ्गैस्तरङ्गैर्-

       अमितनदनदीनामङ्गसङ्गैरसङ्गैः ।

विहरसि जगदण्डे खण्डंयती गिरीन्द्रान् रमयसि

       निजकान्तं  सागरं कान्तकाते ॥ ५॥


तव परमहिमानं चित्तवाचाममानं

       हरिहरविधिशत्र्का नापि गङ्गे विदन्ति ।

श्रुतिकुलमभिधत्ते शङ्कितं तं गुणान्तं

       गुणगणसुविलापैर्नेति नेतीति सत्यम् ॥ ६॥


तव नुतिनतिनामान्यप्यघं पावयन्ति ददति

       परमशान्तिं दिव्यभोगान् जनानाम् ।

इति पतितशरण्ये त्वां प्रपन्नोऽस्मि

       मातर्ललिततरतरङ्गे चाङ्ग गवेप्रसीद ॥ ७॥


शुभतरकृतयोगाद्विश्वनाथ-

       प्रसादाद्भवहरवरविद्यां प्राप्य काश्यां हि गङ्गे ।

भगवति तव तीरे नीरसारं निपीय

       मुदितहृदयकञ्जे नन्दसूनुं भजेऽहम् ॥ ८॥


गङ्गाष्टकमिदं कृत्वा भुक्तिमुक्तिप्रदं नृणाम् ।

सत्यज्ञानानन्दतीर्थयतिना स्वर्पितं शिवे ॥ ९॥


तेन प्रणातु भगवान् शिवो गङ्गाधरो विभुः ।

करोतु शङ्करः काश्यां जनानां सततं शिवम् ॥ १०॥


इति सत्यज्ञानानन्दतीर्थयतिना विरचितं गङ्गाष्टकं सम्पूर्णम् ॥




Encoded and proofread by Dinesh Agarwal

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!
Follow Me Chat