Sri Ayyappa Stotram – श्री अय्यप्प स्तोत्रम्

P Madhav Kumar

 अरुणोदयसङ्काशं नीलकुण्डलधारणं ।

नीलाम्बरधरं देवं वन्देऽहं ब्रह्मनन्दनम् ॥ १ ॥

चापबाणं वामहस्ते रौप्यवीत्रं च दक्षिणे । [*चिन्मुद्रां दक्षिणकरे*]
विलसत्कुण्डलधरं वन्देऽहं विष्णुनन्दनम् ॥ २ ॥

व्याघ्रारूढं रक्तनेत्रं स्वर्णमालाविभूषणं ।
वीरापट्‍टधरं देवं वन्देऽहं शंभुनन्दनम् ॥ ३ ॥

किङ्किण्योड्यान भूतेशं पूर्णचन्द्रनिभाननं ।
किरातरूप शास्तारं वन्देऽहं पाण्ड्यनन्दनम् ॥ ४ ॥

भूतभेतालसंसेव्यं काञ्चनाद्रिनिवासितं ।
मणिकण्ठमिति ख्यातं वन्देऽहं शक्तिनन्दनम् ॥ ५ ॥

इति श्री अय्यप्पा स्तोत्रम् ।

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!
Follow Me Chat