Sri Kiratha (Ayyappa) Ashtakam – श्री किराताष्टकम्

P Madhav Kumar

 अस्य श्रीकिरातशस्तुर्महामन्त्रस्य रेमन्त ऋषिः देवी गायत्री छन्दः श्री किरात शास्ता देवता, ह्रां बीजं, ह्रीं शक्तिः, ह्रूं कीलकं, श्री किरात शस्तु प्रसाद सिद्ध्यर्थे जपे विनियोगः ।

करन्यासः –
ओं ह्रां अङ्गुष्ठाभ्यां नमः ।
ओं ह्रीं तर्जनीभ्यां नमः ।
ओं ह्रूं मध्यमाभ्यां नमः ।
ओं ह्रैं अनामिकाभ्यां नमः ।
ओं ह्रौं कनिष्ठिकाभ्यां नमः ।
ओं ह्रः करतल करपृष्ठाभ्यां नमः ।

अङ्गन्यासः –
ओं ह्रां हृदयाय नमः ।
ओं ह्रीं शिरसे स्वाहा ।
ओं ह्रूं शिखायै वषट् ।
ओं ह्रैं कवचाय हुम् ।
ओं ह्रौं नेत्रत्रयाय वौषट् ।
ओं ह्रः अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बन्धः ।

ध्यानम् ।
कोदण्डं सशरं भुजेन भुजगेन्द्रभोगा भासावहन्
वामेनच्छुरिकां विभक्षलने पक्षेण दक्षेण च ।
कान्त्या निर्जित नीरदः पुरभिदः क्रीडन्किराताकृते
पुत्रोस्माकमनल्प निर्मलया च निर्मातु शर्मानिशम् ॥

स्तोत्रम् ।
प्रत्यर्थिव्रातवक्षःस्थलरुधिरसुरापानमत्ता पृषत्कं
चापे सन्धाय तिष्ठन् हृदयसरसिजे मामके तापहं तम् ।
पिञ्छोत्तंसः शरण्यः पशुपतितनयो नीरदाभः प्रसन्नो
देवः पायादपायाच्छबरवपुरसौ सावधानः सदा नः ॥ १ ॥

आखेटाय वनेचरस्य गिरिजासक्तस्य शम्भोः सुतः
त्रातुं यो भुवनं पुरा समजनि ख्यातः किराताकृतिः ।
कोदण्डक्षुरिकाधरो घनरवः पिञ्छावतंसोज्ज्वलः
स त्वं मामव सर्वदा रिपुगणत्रस्तं दयावारिधे ॥ २ ॥

यो मां पीडयति प्रसह्य सततं देहीत्यनन्याश्रयं
भित्वा तस्य रिपोरुरः क्षुरिकया शाताग्रया दुर्मतेः ।
देव त्वत्करपङ्कजोल्लसितया श्रीमत्किराताकृतेः
तत्प्राणान्वितरान्तकाय भगवन् कालारिपुत्राञ्जसा ॥ ३ ॥

विद्धो मर्मसु दुर्वचोभिरसतां सन्तप्तशल्योपमैः
दृप्तानां द्विषतामशान्तमनसां खिन्नोऽस्मि यावद्भृशम् ।
तावत्त्वं क्षुरिकाशरासनधरश्चित्ते ममाविर्भवन्
स्वामिन् देव किरातरूप शमय प्रत्यर्थिगर्वं क्षणात् ॥ ४ ॥

हर्तुं वित्तमधर्मतो मम रताश्चोराश्च ये दुर्जना-
-स्तेषां मर्मसु ताडयाशु विशिखैस्त्वत्कार्मुकान्निःसृतैः ॥

शास्तारं द्विषतां किरातवपुषं सर्वार्थदं त्वामृते
पश्याम्यत्र पुरारिपुत्र शरणं नान्यं प्रपन्नोऽस्म्यहम् ॥ ५ ॥

यक्षः प्रेतपिशाचभूतनिवहाः दुःखप्रदा भीषणाः
बाधन्ते नरशोणितोत्सुकधियो ये मां रिपुप्रेरिताः ।
चापज्यानिनदैस्त्वमीश सकलान् संहृत्य दुष्टग्रहान्
गौरीशात्मज दैवतेश्वर किराताकार संरक्ष माम् ॥ ६ ॥

दोग्धुं ये निरतास्त्वमद्य पदपद्मैकान्तभक्ताय मे
मायाच्छन्नकलेबराश्रुविषदानाद्यैः सदा कर्मभिः ।
वश्यस्तम्भनमारणादिकुशलप्रारम्भदक्षानरीन्
दुष्टान् संहर देवदेव शबराकार त्रिलोकेश्वर ॥ ७ ॥

तन्वा वा मनसा गिरापि सततं दोषं चिकीर्षत्यलं
त्वत्पादप्रणतस्य निरपराधस्यापि ये मानवाः ।
सर्वान् संहर तान् गिरीशसुत मे तापत्रयौघानपि
त्वामेकं शबराकृते भयहरं नाथं प्रपन्नोऽस्म्यहम् ॥ ८ ॥

क्लिष्टो राजभटैस्तदापि परिभूतोऽहं कुलैर्वैरिभि-
-श्चान्यैर्घोरतरैर्विपज्जलनिधौ मग्नोऽस्मि दुःखातुरम् ।
हा हा किङ्करवै विभो शबरवेषं त्वामभीष्टार्थदं
वन्देऽहं परदैवतं कुरु कृपानाथार्तबन्धो मयि ॥ ९ ॥

स्तोत्रं यः प्रजपेत् प्रशान्तकरणैर्नित्यं किराताष्टकं
स क्षिप्रं वशगान् करोति नृपतीनाबद्धवैरानपि ।
संहृत्यात्मविरोधिनः खिलजनान् दुष्टग्रहानप्यसौ
यात्यन्ते यमदूतभीतिरहितो दिव्यां गतिं शाश्वतीम् ॥ १० ॥

इति श्री किराताष्टकम् ।


#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!
Follow Me Chat