करतलराजच्छक्ते स्वरदपराभूतकुन्दसुमगर्व ।
सुरवरनिषेविताङ्घ्रे शरवणभव पाहि देवसेनेश ॥ १ ॥
तटिदाभदेहकान्ते कटिविलसत्पीतवर्णकौशेय ।
पाटितशूरासुर भो शरवणभव पाहि देवसेनेश ॥ २ ॥
नीलग्रीवतनूद्भव बालदिनेशानकोटिनिभदेह ।
कालप्रतिभटमोदद शरवणभव पाहि देवसेनेश ॥ ३ ॥
पदजितपङ्कज पङ्कजभवपङ्कजनेत्रमुख्यसुरवन्द्य ।
पदवीं प्रापय महतीं शरवणभव पाहि देवसेनेश ॥ ४ ॥
तारकदैत्यनिवारक तारापतिगर्वहारिषड्वक्त्र ।
तारक भवाम्बुराशेः शरवणभव पाहि देवसेनेश ॥ ५ ॥
पर्वतसुतामनोऽम्बुजसद्यःसञ्जातवासरेशतते ।
सर्वश्रुतिगीतविभो शरवणभव पाहि देवसेनेश ॥ ६ ॥
इति शृङ्गेरिजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंहभारती स्वामिभिः विरचितं श्री शरवणभव देवसेनेश षट्कम् ।