गजेन्द्रशार्दूल मृगेन्द्रवाहनं
मुनीन्द्रसंसेवित पादपङ्कजम् ।
देवीद्वयेनावृत पार्श्वयुग्मं
शास्तारमाद्यं सततं नमामि ॥ १ ॥
हरिहरभवमेकं सच्चिदानन्दरूपं
भवभयहरपादं भावनागम्यमूर्तिम् ।
सकलभुवनहेतुं सत्यधर्मानुकूलं
श्रितजनकुलपालं धर्मशास्तारमीडे ॥ २ ॥
हरिहरसुतमीशं वीरवर्यं सुरेशं
कलियुगभवभीतिध्वंसलीलावतारम् ।
जयविजयलक्ष्मी सुसंसृताजानुबाहुं
मलयगिरिनिवासं धर्मशास्तारमीडे ॥ ३ ॥
परशिवमयमीड्यं भूतनाथं मुनीन्द्रं
करधृतविकचाब्जं ब्रह्मपञ्चस्वरूपम् ।
मणिमयसुकिरीटं मल्लिकापुष्पहारं
वरवितरणशीलं धर्मशास्तारमीडे ॥ ४ ॥
हरिहरमयमाय बिम्बमादित्यकोटि-
-त्विषममलमुखेन्दुं सत्यसन्धं वरेण्यम् ।
उपनिषदविभाव्यं ओमितिध्यानगम्यं
मुनिजनहृदिचिन्त्यं धर्मशास्तारमीडे ॥ ५ ॥
कनकमय दुकूलं चन्दनार्द्रावसिक्तं
सरसमृदुलहासं ब्राह्मणानन्दकारम् ।
मधुरसमयपाणिं मारजीवातुलीलं
सकलदुरितनाशं धर्मशास्तारमीडे ॥ ६ ॥
मुनिजनगणसेव्यं मुक्तिसाम्राज्यमूलं
विदितसकलतत्त्वज्ञानमन्त्रोपदेशम् ।
इहपरफलहेतुं तारकं ब्रह्मसञ्ज्ञं
षडरिमलविनाशं धर्मशास्तारमीडे ॥ ७ ॥
मधुरसफलमुख्यैः पायसैर्भक्ष्यजालैः
दधिघृतपरिपूर्णैरन्नदानैः सन्तुष्टम् ।
निजपदनमितानां नित्यवात्सल्यभावं
हृदयकमलमध्ये धर्मशास्तारमीडे ॥ ८ ॥
भवगुणजनितानां भोगमोक्षाय नित्यं
हरिहरभवदेवस्याष्टकं सन्निधौ यः ।
पठति सकलभोगान् मुक्तिसाम्राज्यभाग्ये
भुविदिविसुवस्तस्मै नित्यतुष्टो ददाति ॥ ९ ॥
इति श्रीमहाशास्ताष्टकं सम्पूर्णम् ।