बन्धूकबन्धुररुचिं कलधौतभासं
पञ्चाननं दुरितवञ्चनधीरमीशम् ।
पार्श्वद्वयाकलितशक्तिकटाक्षचारुं
नीलोत्पलार्चिततनुं प्रणतोऽस्मि देवम् ॥ १ ॥
कल्याणवेषरुचिरं करुणानिधानं
कन्दर्पकोटिसदृशं कमनीयभासम् ।
कान्ताद्वयाकलितपार्श्वमघारिमाद्यं
शास्तारमेव सततं प्रणतोऽस्मि नित्यम् ॥ २ ॥
यो वा स्मरेदरुणकुङ्कुमपङ्कशोण-
-गुञ्जापिनद्धकचभारलसत्किरीटम् ।
शास्तारमेव सततं स तु सर्वलोकान्
विस्मापयेन्निजविलोकनतो नितान्तम् ॥ ३ ॥
पञ्चेषुकैटभविरोधितनूभवं तं
आरूढदन्तिपरमादृतमन्दहासम् ।
हस्ताम्बुजैरविरतं निजभक्तहंसे-
-ष्वृद्धिं परां हि ददतं भुवनैकवन्द्यम् ॥ ४ ॥
गुञ्जामणिस्रगुपलक्षितकेशहस्तं
कस्तूरिकातिलकमोहनसर्वलोकम् ।
पञ्चाननाम्बुजलसत् घनकर्णपाशं
शास्तारमम्बुरुहलोचनमीशमीडे ॥ ५ ॥
पञ्चाननं दशभुजं धृतहेतिदण्डं
धारावतादपि च रूष्णिकमालिकाभिः ।
इच्छानुरूपफलदोऽस्म्यहमेव भक्ते-
-ष्वित्थं प्रतीतविभवं भगवन्तमीडे ॥ ६ ॥
स्मेराननाद्भगवतः स्मरशासनाच्च
मायागृहीतमहिलावपुषो हरेश्च ।
यः सङ्गमे समुदभूत् जगतीह तादृग्
देवं नतोऽस्मि करुणालयमाश्रयेऽहम् ॥ ७ ॥
यस्यैव भक्तजनमत्र गृणन्ति लोके
किं वा मयः किमथवा सुरवर्धकिर्वा ।
वेधाः किमेष ननु शम्बर एष वा किं
इत्येव तं शरणमाशुतरं व्रजामि ॥ ८ ॥
इति श्री धर्मशास्ताष्टकम् ।