Sri Kumara Stuti (Deva Krutam) – श्री कुमार स्तुतिः (देव कृतम्)

P Madhav Kumar

 देवा ऊचुः ।

नमः कल्याणरूपाय नमस्ते विश्वमङ्गल ।
विश्वबन्धो नमस्तेऽस्तु नमस्ते विश्वभावन ॥ २ ॥

नमोऽस्तु ते दानववर्यहन्त्रे
बाणासुरप्राणहराय देव ।
प्रलम्बनाशाय पवित्ररूपिणे
नमो नमः शङ्करतात तुभ्यम् ॥ ३ ॥

त्वमेव कर्ता जगतां च भर्ता
त्वमेव हर्ता शुचिज प्रसीद ।
प्रपञ्चभूतस्तव लोकबिम्बः
प्रसीद शम्भ्वात्मज दीनबन्धो ॥ ४ ॥

देवरक्षाकर स्वामिन् रक्ष नः सर्वदा प्रभो ।
देवप्राणावनकर प्रसीद करुणाकर ॥ ५ ॥

हत्वा ते तारकं दैत्यं परिवारयुतं विभो ।
मोचिताः सकला देवा विपद्भ्यः परमेश्वर ॥ ६ ॥

इति श्रीशिवमहापुराणे रुद्रसंहितायां कुमारखण्डे द्वादशोऽध्याये तारकवधानन्तरं देवैः कृत कुमार स्तुतिः ।

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!
Follow Me Chat