शबरिगिरिनिवासं शान्तहृत्पद्महंसं
शशिरुचिमृदुहासं श्यामलाम्बोधभासम् ।
कलितरिपुनिरासं कान्तमुत्तुङ्गनासं
नतिनुतिपरदासं नौमि पिञ्छावतंसम् ॥ १ ॥
शबरिगिरिनिशान्तं शङ्खकुन्देन्दुदन्तं
शमधनहृदिभान्तं शत्रुपालीकृतान्तम् ।
सरसिजरिपुकान्तं सानुकम्पेक्षणान्तं
कृतनुतविपदन्तं कीर्तयेऽहं नितान्तम् ॥ २ ॥
शबरिगिरिकलापं शास्त्रवद्ध्वान्तदीपं
शमितसुजनतापं शान्तिहानैर्दुरापम् ।
करधृतसुमचापं कारणोपात्तरूपं
कचकलितकलापं कामये पुष्कलाभम् ॥ ३ ॥
शबरिगिरिनिकेतं शङ्करोपेन्द्रपोतं
शकलितदितिजातं शत्रुजीमूतपातम् ।
पदनतपुरहूतं पालिताशेषभूतं
भवजलनिधिपोतं भावये नित्यभूतम् ॥ ४ ॥
शबरिविहृतिलोलं श्यामलोदारचेलं
शतमखरिपुकालं सर्ववैकुण्ठबालम् ।
नतजनसुरजालं नाकिलोकानुकूलं
नवमयमणिमालं नौमि निःशेषमूलम् ॥ ५ ॥
शबरिगिरिकुटीरं शत्रुसङ्घातघोरं
शठगिरिशतधारं शष्पितेन्द्रारिशूरम् ।
हरिगिरीशकुमारं हारिकेयूरहारं
नवजलदशरीरं नौमि विश्वैकवीरम् ॥ ६ ॥
सरसिजदलनेत्रं सारसारातिवक्त्रं
सजलजलदगात्रं सान्द्रकारुण्यपात्रम् ।
सहतनयकलत्रं साम्बगोविन्दपुत्रं
सकलविबुधमित्रं सन्नमामः पवित्रम् ॥ ७ ॥
इति श्री शबरिगिरिवास स्तोत्रम् ॥