ह्रिया लक्ष्म्या वल्ल्या सुरपृतनयाऽऽलिङ्गिततनुः
मयूरारूढोऽयं शिववदनपङ्केरुहरविः ।
षडास्यो भक्तानामचलहृदिवासं प्रतनवै
इतीमं बुद्धिं द्रागचलनिलयः सञ्जनयति ॥ १ ॥
स्मितन्यक्कृतेन्दुप्रभाकुन्दपुष्पं
सिताभ्रागरुप्रष्ठगन्धानुलिप्तम् ।
श्रिताशेषलोकेष्टदानामरद्रुं
सदा षण्मुखं भावये हृत्सरोजे ॥ २ ॥
शरीरेन्द्रियादावहम्भावजातान्
षडूर्मीर्विकारांश्च शत्रून्निहन्तुम् ।
नतानां दधे यस्तमास्याब्जषट्कं
सदा षण्मुखं भावये हृत्सरोजे ॥ ३ ॥
अपर्णाख्यवल्लीसमाश्लेषयोगात्
पुरा स्थाणुतो योऽजनिष्टामरार्थम् ।
विशाखं नगे वल्लिकाऽऽलिङ्गितं तं
सदा षण्मुखं भावये हृत्सरोजे ॥ ४ ॥
गुकारेण वाच्यं तमो बाह्यमन्तः
स्वदेहाभया ज्ञानदानेन हन्ति ।
य एनं गुहं वेदशीर्षैकमेयं
सदा षण्मुखं भावये हृत्सरोजे ॥ ५ ॥
यतः कर्ममार्गो भुवि ख्यापितस्तं
स्वनृत्ये निमित्तस्य हेतुं विदित्वा ।
वहत्यादरान्मेघनादानुलासी
सदा षण्मुखं भावये हृत्सरोजे ॥ ६ ॥
कृपावारिराशिर्नृणामास्तिकत्वं
दृढं कर्तुमद्यापि यः कुक्कुटादीन् ।
भृशं पाचितान् जीवयन्राजते तं
सदा षण्मुखं भावये हृत्सरोजे ॥ ७ ॥
भुजङ्गप्रयातेन वृत्तेन क्लुप्तां
स्तुतिं षण्मुखस्यादराद्ये पठन्ति ।
सुपुत्रायुरारोग्यसम्पद्विशिष्टान्
करोत्येव तान् षण्मुखः सद्विदग्र्यान् ॥ ८ ॥
इति श्रीशृङ्गेरि शारदापीठ जगद्गुरु श्रीचन्द्रशेखरभारती स्वामिभिः विरचितं श्रीषण्मुख भुजङ्ग स्तुतिः ।