मयूराचलाग्रे सदारं वसन्तं
मुदारं ददानं नतेभ्यो वरांश्च ।
दधानं कराम्भोजमध्ये च शक्तिं
सदा षण्मुखं भावये हृत्सरोजे ॥ १ ॥
गिरीशास्यवाराशिपूर्णेन्दुबिम्बं
कुरङ्गाङ्कधिक्कारिवक्त्रारविन्दम् ।
सुरेन्द्रात्मजाचित्तपाथोजभानुं
सदा षण्मुखं भावये हृत्सरोजे ॥ २ ॥
नतानां हि राज्ञां गुणानां च षण्णां
कृपाभारतो यो द्रुतं बोधनाय ।
षडास्याम्बुजातान्यगृह्णात्परं तं
सदा षण्मुखं भावये हृत्सरोजे ॥ ३ ॥
पुरा तारकं यो विजित्याजिमध्ये
सुरान्दुःखमुक्तांश्चकाराशु मोदात् ।
तमानन्दकन्दं कृपावारिराशिं
सदा षण्मुखं भावये हृत्सरोजे ॥ ४ ॥
शराणां वने जातमेनं हि बालं
यतः कृत्तिकाः पाययन्ति स्म दुग्धम् ।
ततः कार्तिकेयं वदन्तीह यं तं
सदा षण्मुखं भावये हृत्सरोजे ॥ ५ ॥
हरन्तं च बाढं तमो हार्दगाढं
गवानाद्यया चातिमोदेन लीढम् ।
सुरेन्द्रस्य पुत्र्या च गाढोपगूढं
सदा षण्मुखं भावये हृत्सरोजे ॥ ६ ॥
इयं षट्पदी यस्य वक्त्रारविन्दे
विहारं करोत्यादरान्नित्यमेव ।
षडास्यः कृपातः समस्ताश्च विद्या
वितीर्याशु तस्मै स्वभक्तिं ददाति ॥ ७ ॥
इति श्रीशृङ्गेरिजगद्गुरु श्रीसच्चिदानन्द शिवाभिनवनृसिंहभारती स्वामिभिः विरचितं श्री षण्मुख षट्पदी स्तवः ।