90. Deva Krita Shiva Stotram – श्री शिव स्तोत्रम् (देव कृतम्)
Read in: తెలుగు | ಕನ್ನಡ | தமிழ் | देवनागरी | English | മലയാളം

90. Deva Krita Shiva Stotram – श्री शिव स्तोत्रम् (देव कृतम्)

P Madhav Kumar

 देवा ऊचुः ।

नमो देवादिदेवाय त्रिनेत्राय महात्मने ।
रक्तपिङ्गलनेत्राय जटामकुटधारिणे ॥ १ ॥

भूतवेतालजुष्टाय महाभोगोपवीतिने ।
भीमाट्‍टहासवक्त्राय कपर्दि स्थाणवे नमः ॥ २ ॥

पूषदन्तविनाशाय भगनेत्रहने नमः ।
भविष्यद्वृषचिह्नाय महाभूतपते नमः ॥ ३ ॥

भविष्यत्त्रिपुरान्ताय तथान्धकविनाशिने ।
कैलासवरवासाय करिकृत्तिनिवासिने ॥ ४ ॥

विकरालोर्ध्वकेशाय भैरवाय नमो नमः ।
अग्निज्वालाकरालाय शशिमौलिकृते नमः ॥ ५ ॥

भविष्यत् कृतकापालिव्रताय परमेष्ठिने ।
तथा दारुवनध्वंसकारिणे तिग्मशूलिने ॥ ६ ॥

कृतकङ्कणभोगीन्द्र नीलकण्ठ त्रिशूलिने ।
प्रचण्डदण्डहस्ताय बडबाग्निमुखाय च ॥ ७ ॥

वेदान्तवेद्याय नमो यज्ञमूर्ते नमो नमः ।
दक्षयज्ञविनाशाय जगद्भयकराय च ॥ ८ ॥

विश्वेश्वराय देवाय शिव शम्भो भवाय च ।
कपर्दिने करालाय महादेवाय ते नमः ॥ ९ ॥

एवं देवैः स्तुतः शम्भुरुग्रधन्वा सनातनः ।
उवाच देवदेवोयं यत्करोमि तदुच्यते ॥ १० ॥

इति श्रीवराहपुराणे देवकृत शिवस्तोत्रम् ।


इतर श्री शिव स्तोत्राणि पश्यतु ।

 ------> मेरे व्हाट्स ऐप चैनल से जुड़ें

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!
💬 Chat 📢 Follow