91. Deva Danava Krita Shiva Stotram – श्री शिव स्तोत्रम् (देवदानव कृतम्)
Read in: తెలుగు | ಕನ್ನಡ | தமிழ் | देवनागरी | English | മലയാളം

91. Deva Danava Krita Shiva Stotram – श्री शिव स्तोत्रम् (देवदानव कृतम्)

P Madhav Kumar

 देवदानवा ऊचुः ।

नमस्तुभ्यं विरूपाक्ष सर्वतोऽनन्तचक्षुषे ।
नमः पिनाकहस्ताय वज्रहस्ताय धन्विने ॥ १ ॥

नमस्त्रिशूलहस्ताय दण्डहस्ताय धूर्जटे ।
नमस्त्रैलोक्यनाथाय भूतग्रामशरीरिणे ॥ २ ॥

नमः सुरारिहन्त्रे च सोमाग्न्यर्काग्र्यचक्षुषे ।
ब्रह्मणे चैव रुद्राय नमस्ते विष्णुरूपिणे ॥ ३ ॥

ब्रह्मणे वेदरूपाय नमस्ते देवरूपिणे ।
साङ्ख्ययोगाय भूतानां नमस्ते शम्भवाय ते ॥ ४ ॥

मन्मथाङ्गविनाशाय नमः कालक्षयङ्कर ।
रंहसे देवदेवाय नमस्ते वसुरेतसे ॥ ५ ॥

एकवीराय सर्वाय नमः पिङ्गकपर्दिने ।
उमाभर्त्रे नमस्तुभ्यं यज्ञत्रिपुरघातिने ॥ ६ ॥

शुद्धबोधप्रबुद्धाय मुक्तकैवल्यरूपिणे ।
लोकत्रयविधात्रे च वरुणेन्द्राग्निरूपिणे ॥ ७ ॥

ऋग्यजुः सामवेदाय पुरुषायेश्वराय च ।
अग्राय चैव चोग्राय विप्राय श्रुतिचक्षुषे ॥ ८ ॥

रजसे चैव सत्त्वाय तमसे स्थिमितात्मने ।
अनित्यनित्यभासाय नमो नित्यचरात्मने ॥ ९ ॥

व्यक्ताय चैवाव्यक्ताय व्यक्ताव्यक्तात्मने नमः ।
भक्तानामार्तिनाशाय प्रियनारायणाय च ॥ १० ॥

उमाप्रियाय शर्वाय नन्दिवक्त्राञ्चिताय वै ।
ऋतुमन्वन्तकल्पाय पक्षमासदिनात्मने ॥ ११ ॥

नानारूपाय मुण्डाय वरूथ पृथुदण्डिने ।
नमः कपालहस्ताय दिग्वासाय शिखण्डिने ॥ १२ ॥

धन्विने रथिने चैव यतये ब्रह्मचारिणे ।
इत्येवमादिचरितैः स्तुतं तुभ्यं नमो नमः ॥ १३ ॥

इति श्रीमत्स्यपुराणे क्षीरोदमथवर्णनो नाम पञ्चाशदधिकद्विशततमोऽध्याये देवदानवकृत शिवस्तोत्रम् ।


इतर श्री शिव स्तोत्राणि पश्यतु ।

 ------> मेरे व्हाट्स ऐप चैनल से जुड़ें

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!
💬 Chat 📢 Follow