व्याख्यारुद्राक्षमाले कलशसुरभिते बाहुभिर्वामपादं
बिभ्राणो जानुमूर्ध्ना वटतरुनिवृतावस्यधो विद्यमानः ।
सौवर्णे योगपीठे लिपिमयकमले सूपविष्टस्त्रिणेत्रः
क्षीराभश्चन्द्रमौलिर्वितरतु नितरां शुद्धबुद्धिं शिवो नः ॥
स्तोत्रम् –
विद्यारूपी महायोगी शुद्धज्ञानी पिनाकधृत् ।
रत्नालङ्कृतसर्वाङ्गो रत्नमाली जटाधरः ॥ १ ॥
गङ्गाधार्यचलावासी सर्वज्ञानी समाधिधृत् ।
अप्रमेयो योगनिधिस्तारको भक्तवत्सलः ॥ २ ॥
ब्रह्मरूपी जगद्व्यापी विष्णुमूर्तिः पुरान्तकः ।
उक्षवाहश्चर्मवासाः पीताम्बरविभूषणः ॥ ३ ॥
मोक्षसिद्धिर्मोक्षदायी दानवारिर्जगत्पतिः ।
विद्याधारी शुक्लतनुः विद्यादायी गणाधिपः ॥ ४ ॥
पापापस्मृतिसंहर्ता शशिमौलिर्महास्वनः ।
सामप्रियः स्वयं साधुः सर्वदेवैर्नमस्कृतः ॥ ५ ॥
हस्तवह्निधरः श्रीमान् मृगधारी च शङ्करः ।
यज्ञनाथः क्रतुध्वंसी यज्ञभोक्ता यमान्तकः ॥ ६ ॥
भक्तानुग्रहमूर्तिश्च भक्तसेव्यो वृषध्वजः ।
भस्मोद्धूलितसर्वाङ्गोऽप्यक्षमालाधरो महान् ॥ ७ ॥
त्रयीमूर्तिः परं ब्रह्म नागराजैरलङ्कृतः ।
शान्तरूपो महाज्ञानी सर्वलोकविभूषणः ॥ ८ ॥
अर्धनारीश्वरो देवो मुनिसेव्यः सुरोत्तमः ।
व्याख्यानदेवो भगवान् अग्निचन्द्रार्कलोचनः ॥ ९ ॥
जगत्स्रष्टा जगद्गोप्ता जगद्ध्वंसी त्रिलोचनः ।
जगद्गुरुर्महादेवो महानन्दपरायणः ॥ १० ॥
जटाधारी महावीरो ज्ञानदेवैरलङ्कृतः ।
व्योमगङ्गाजलस्नाता सिद्धसङ्घसमर्चितः ॥ ११ ॥
तत्त्वमूर्तिर्महायोगी महासारस्वतप्रदः ।
व्योममूर्तिश्च भक्तानामिष्टकामफलप्रदः ॥ १२ ॥
वीरमूर्तिर्विरूपी च तेजोमूर्तिरनामयः ।
वेदवेदाङ्गतत्त्वज्ञश्चतुष्षष्टिकलानिधिः ॥ १३ ॥
भवरोगभयध्वंसी भक्तानामभयप्रदः ।
नीलग्रीवो ललाटाक्षो गजचर्मा च ज्ञानदः ॥ १४ ॥
अरोगी कामदहनस्तपस्वी विष्णुवल्लभः ।
ब्रह्मचारी च संन्यासी गृहस्थाश्रमकारणः ॥ १५ ॥
दान्तशमवतां श्रेष्ठः सत्त्वरूपदयानिधिः ।
योगपट्टाभिरामश्च वीणाधारी विचेतनः ॥ १६ ॥
मन्त्रप्रज्ञानुगाचारो मुद्रापुस्तकधारकः ।
रागहिक्कादिरोगाणां विनिहन्ता सुरेश्वरः ॥ १७ ॥
इति श्री दक्षिणामूर्त्यष्टोत्तरशतनाम स्तोत्रम् ॥
