Read in: తెలుగు | ಕನ್ನಡ | தமிழ் | देवनागरी | English | മലയാളം | ગુજરાતી | मराठी |

Sri Dakshinamurthy Dandakam – श्री दक्षिणामूर्ति दण्डकम्

P Madhav Kumar
ओं नमस्ते दक्षिणामूर्तये स्वस्वरूपाय कैवल्यरूपिणे कैवल्यहेतवे कैवल्यपतये नमो नमो मुक्तिरूपिणे मुक्तिहेतवे मुक्तिदायिने मुक्तानां पतये नमो नमो तपः स्वरूपिणे परमतपस्विने तपस्वीनां पतये नमो नमो ब्रह्मविद्योपदेशकर्त्रे ब्रह्मविद्याहेतवे गुरूणां गुरवे नमो नमो विरक्तिहेतवे विरक्तिरूपिणे विरक्ताय विरक्तानां पतये नमो नमो यतिबृन्दसमावृताय यतिधर्मपरायणाय यतिरूपधारिणे यतिप्रियाय यतीश्वराय नमो नमो सुज्ञानहेतवे सुज्ञानदायिने ज्ञानरूपाय ज्ञानदीपाय ज्ञानेश्वराय नमो नमो भक्तिहेतवे भक्तिदायिने भक्तवत्सलाय भक्तपराधीनाय भक्तानां पतये नमो नमो योगारूढाय योगाय परमयोगिने योगीश्वराय नमो नमो देवानां पतये सर्वविद्याधिपतये सर्वेश्वराय सर्वलोकाधिपतये सर्वभूताधिपतये नमो नमः स्वात्मरूपाय स्वात्ममूर्तये स्वात्मानन्ददायिने स्वस्वरूपाय नमो नमो परमात्मने परञ्ज्योतिषे परन्धामाय परमगतये परब्रह्मणे नमो नमः ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!
📢 Follow