बिभ्रद्बभ्रूनुद्भटकापर्दकलापान् ।
भस्मालेपस्मेरललाटं वटमूले
दृष्टं दुष्टापस्मृतिहारि स्मरहन्तृ ॥ १ ॥
न्यग्रोधाधो धिक्कृतधाराधरधीर
ग्रीवाभोगं भोगिकुलाकल्पमनल्पम् ।
मुग्धाकारं मुग्धनिशानाथवतंसं
मुग्धस्मेरं मोहविरामं विमृशामः ॥ २ ॥
नासादत्तालोकनयानाव्यसरोरु-
-ट्किञ्जल्कालिपिङ्गजटाजूटकवत्या ।
प्रौढापस्मारस्मयिताघस्मरशक्त्या
चित्रीभूतं चित्कलया मामकमन्तः ॥ ३ ॥
विद्यारूपे वेदगिरामे कविमृग्ये
नद्यामौलौ नर्तनशीलालकचूडे ।
आलीनं मे मानसमालीढमनोभू-
-गाढाहङ्काराङ्कुरलालाटकृशानौ ॥ ४ ॥
वैयाघ्रत्वक्चित्रपटीक्लुप्तकटीका
टीकाकारज्ञानसमुद्रानिगमोक्तेः ।
मुक्तेर्माता मूलमपारस्य महिम्न-
-श्चिद्वैदग्ध्री काञ्चन चित्ते मम भाति ॥ ५ ॥
इन्दूत्तंसं कालिमकण्ठं शिखिनेत्रं
सिन्दूरोष्ठं शुद्धतनुं बद्धफणीन्द्रम् ।
भादीशाभा भासुरहासं भवमन्तः
शार्दूलत्वग्वाससमीशं वरिवस्ये ॥ ६ ॥
मुद्रा काचित् ज्ञानमयी यं मुनिशंस-
-न्मोहध्वान्तोत्कर्तनवैकर्तनमूर्तेः ।
आर्तिं भिन्द्यादाशयलग्नामनिशं नो
नैयग्रोधीं मूलभुवं चाधिशयाना ॥ ७ ॥
नीहाराम्भो हारसितैरावतगङ्गा
पाटीराली भूतिसुधासूतिवलक्षम् ।
सद्रुद्राक्षस्रग्धरमुद्राक्षमनक्ष-
-स्पन्दं मन्दस्मेरमनादिं गुरुमन्तः ॥ ८ ॥
घोरापस्मृत्युत्कटपृष्ठे विनिविष्टो
यस्यैकोङ्घ्रिस्तत्पृथुलोरु स्थितिरन्यः ।
वस्तुध्यानादुद्धृतनिष्पन्दशरीरं
शान्तं तेजस्तन्महिमानं समुपासे ॥ ९ ॥
एतां मालां नवमणिरूपामादिगुरो-
-र्भक्त्या नित्यं पठति च यो जाड्यविमुक्तः ।
अष्टाचत्वारिंशति साहस्रसमत्वं
गत्वा तस्मिन् विलयमुपैत्येव स धन्यः ॥ १० ॥
इति श्रीनवनाथसिद्धकृत श्री दक्षिणामूर्ति नवमणिमाला स्तोत्रम् ॥
