Read in: తెలుగు | ಕನ್ನಡ | தமிழ் | देवनागरी | English | മലയാളം | ગુજરાતી | मराठी |

Sri Dakshinamurthy Navaratna Mala Stotram – श्री दक्षिणामूर्ति नवरत्नमाला स्तोत्रम्

P Madhav Kumar
मूलेवटस्य मुनिपुङ्गवसेव्यमानं
मुद्राविशेषमुकुलीकृतपाणिपद्मम् ।
मन्दस्मितं मधुरवेषमुदारमाद्यं
तेजस्तदस्तु हृदि मे तरुणेन्दुचूडम् ॥ १ ॥

शान्तं शारदचन्द्रकान्तिधवलं चन्द्राभिरामाननं
चन्द्रार्कोपमकान्तिकुण्डलधरं चन्द्रावदातांशुकम् ।
वीणापुस्तकमक्षसूत्रवलयं व्याख्यानमुद्रां करै-
-र्बिभ्राणं कलये हृदा मम सदा शास्तारमिष्टार्थदम् ॥ २ ॥

कर्पूरपात्रमरविन्ददलायताक्षं
कर्पूरशीतलहृदं करुणाविलासम् ।
चन्द्रार्धशेखरमनन्तगुणाभिराम-
-मिन्द्रादिसेव्यपदपङ्कजमीशमीडे ॥ ३ ॥

द्युद्रोरधः स्वर्णमयासनस्थं
मुद्रोल्लसद्बाहुमुदारकायम् ।
सद्रोहिणीनाथकलावतंसं
भद्रोदधिं कञ्चन चिन्तयामः ॥ ४ ॥

उद्यद्भास्करसन्निभं त्रिणयनं श्वेताङ्गरागप्रभं
बालं मौञ्जिधरं प्रसन्नवदनं न्यग्रोधमूलेस्थितम् ।
पिङ्गाक्षं मृगशाबकस्थितिकरं सुब्रह्मसूत्राकृतिं
भक्तानामभयप्रदं भयहरं श्रीदक्षिणामूर्तिकम् ॥ ५ ॥

श्रीकान्तद्रुहिणोपमन्यु तपन स्कन्देन्द्रनन्द्यादयः
प्राचीनागुरवोऽपि यस्य करुणालेशाद्गतागौरवम् ।
तं सर्वादिगुरुं मनोज्ञवपुषं मन्दस्मितालङ्कृतं
चिन्मुद्राकृतिमुग्धपाणिनलिनं चित्ते शिवं कुर्महे ॥ ६ ॥

कपर्दिनं चन्द्रकलावतंसं
त्रिणेत्रमिन्दुपतिमाननोज्वलम् ।
चतुर्भुजं ज्ञानदमक्षसूत्र-
-पुस्ताग्निहस्तं हृदि भावयेच्छिवम् ॥ ७ ॥

वामोरूपरिसंस्थितां गिरिसुतामन्योन्यमालिङ्गितां
श्यामामुत्पलधारिणीं शशिनिभां चालोकयन्तं शिवम् ।
आश्लिष्टेन करेण पुस्तकमथो कुम्भं सुधापूरितं
मुद्रां ज्ञानमयीं दधानमपरैर्मुक्ताक्षमालं भजे ॥ ८ ॥

वटतरुनिकटनिवासं
पटुतरविज्ञानमुद्रितकराब्जम् ।
कञ्चनदेशिकमाद्यं
कैवल्यानन्दकन्दलं वन्दे ॥ ९ ॥

इति श्री दक्षिणामूर्ति नवरत्नमाला स्तोत्रम् ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!
📢 Follow