अक्षियुग्मे तथा पातु प्रणवाक्तः प पञ्चमः ॥ १ ॥ /मो/
भ्रूयुगे प चतुर्थोऽव्याद्वदने क तृतीयकः । /भ,ग/
कर्णयोर्वारुणं पातु भगाक्तस्तश्च गण्डयोः ॥ २ ॥ /व,ते/
दन्ते त त्रिः सदा पातु जिह्वाङ्ग्रेन्त्यः सनेत्रकः । /द,क्षि/
मुखपृस्त समारूढ स्कन्धावव्याट्टपञ्चमः ॥ ३ ॥ /णा/
कण्ठे मू च सदा पातु भुजयो र्तः सदाऽवतु । /मू,र्त/
वायुबीजं भगाक्रान्तं हृदयं सर्वदाऽवतु ॥ ४ ॥ /ये/
मकारः पातु मे पृष्ठे जठरे ह्यं सदाऽवतु । /म,ह्यं/
नाभौ मे च सदा पातु धां गुदे सर्वदाऽवतु ॥ ५ ॥ /मे,धां/
प्रकारोऽव्यात् कटी नित्यं ज्ञां च लिङ्गे सदाऽवतु । /प्र,ज्ञां/
ऊरू पातु प्रकारस्तु वायुर्जान्वोः सदाऽवतु ॥ ६ ॥ /प्र,य/
चद्वितीयस्तु करयोः स्वाकारो मणिबन्धके । /च्छ,स्वा/
पादयोर्हा सदा पातु महामन्त्रपरात्परः ॥ ७ ॥ /हा/
इति श्री दक्षिणामूर्ति मन्त्र कवचम् ॥
