यस्याज्ञां शिरसि कुर्वते सततम् ।
ओङ्कारपद्मभृङ्गं
तमहं प्रणमामि दक्षिणामूर्तिम् ॥ १ ॥
नत्वा यत्पदयुग्मं
मूका अपि वाग्विधूतगुरवः स्युः ।
नतजनरक्षणदक्षं
तमहं प्रणमामि दक्षिणामूर्तिम् ॥ २ ॥
मोहमतङ्गजभेदन-
-पञ्चास्या यत्पदाम्बुजप्रणताः ।
मोहान्धकारमिहिरं
तमहं प्रणमामि दक्षिणामूर्तिम् ॥ ३ ॥
भववारिधिमाशु तरे-
-त्कुल्यामिव यत्पदाम्बुजध्यानात् ।
भगवत्पदादिरूपं
तमहं प्रणमामि दक्षिणामूर्तिम् ॥ ४ ॥
गतिविजितहंसगर्वं
गगनमरुद्वह्निजलधरारूपम् ।
गजमुखषडास्यपूजित-
-मनिशं प्रणमामि दक्षिणामूर्तिम् ॥ ५ ॥
वरयन्तेऽखिलविद्याः
स्वयमेव यदङ्घ्रिपद्मनम्रजनान् ।
वनवासलोलचित्तं
तमहं प्रणमामि दक्षिणामूर्तिम् ॥ ६ ॥
तेन जितं जगदखिलं
तेनैवात्तं समस्तभाग्यं च ।
येन त्वत्पदयुगलं
पूजितमपि जातु दक्षिणामूर्ते ॥ ७ ॥
दमशममुखास्तु सुगुणाः
प्राप्यन्ते सत्वरं यस्य ।
पादाम्बुजयुगनमना-
-त्तमहं प्रणमामि दक्षिणामूर्तिम् ॥ ८ ॥
क्षितिपतयो दासाः स्यु-
-र्यत्पादपाथोजपूजकस्याशु ।
क्षितिधरशिखरावासं
तमहं प्रणमामि दक्षिणामूर्तिम् ॥ ९ ॥
णाणेति यन्मनुस्थं
वर्णं जप्तुः समस्तपुरुषार्थाः ।
करतलमध्यगताः स्यु-
-स्तमहं प्रणमामि दक्षिणामूर्तिम् ॥ १० ॥
मूर्तिं निरीक्ष्य मोहं
प्राप्यागसुता पुरा तपस्तेपे ।
यस्य प्राप्त्यै सुचिरं
तमहं प्रणमामि दक्षिणामूर्तिम् ॥ ११ ॥
तस्याणिमादिसिद्धि-
-र्विनैव योगं भवेन्न सन्देहः ।
तरुणेन्दुभूषितजटं
यस्त्वां नमतीह दक्षिणामूर्ते ॥ १२ ॥
ये त्वत्पादाब्जयुगलं
चित्ते सन्दधति दक्षिणामूर्ते ।
तान्मत्तवारणेन्द्रा
दधति तुरङ्गाः सुवर्णशिबिकाश्च ॥ १३ ॥
मथितासुरसन्दोहं
मानसचरमद्रिराजतनयायाः ।
मानप्रदमानमता-
-मनिशं प्रणमामि दक्षिणामूर्तिम् ॥ १४ ॥
ह्यम्भोधौ लुठतां त-
-त्पारं गन्तुं यदीयपदभक्तिः ।
संसृतिरूपे नौका
तमहं प्रणमामि दक्षिणामूर्तिम् ॥ १५ ॥
मेधाप्रज्ञे चेटी-
-भावं व्रजतो यदङ्घ्रिनतिकर्तुः ।
मेनासखजाकान्तं
तमहं प्रणमामि दक्षिणामूर्तिम् ॥ १६ ॥
धां बापूर्वां निखिलां
योऽरं वारयति भक्तबृन्दस्य ।
धाम्नामपि धामत्वद-
-मनिशं प्रणमामि दक्षिणामूर्तिम् ॥ १७ ॥
प्रज्ञामात्रशरीरं
प्रणताघाम्भोधिकुम्भसञ्जातम् ।
प्रत्यक्षं नतविततेः
सततं प्रणमामि दक्षिणामूर्तिम् ॥ १८ ॥
ज्ञांशीभूताञ्जीवान्
भवमग्नान् ब्रह्मबोधदानेन ।
कुर्वाणं प्रविमुक्तान्
सततं प्रणमामि दक्षिणामूर्तिम् ॥ १९ ॥
प्रत्नवचस्ततिगेयं
प्रज्ञादानप्रचण्डनिजनमनम् ।
प्रणवप्रतिपाद्यतनुं
सततं प्रणमामि दक्षिणामूर्तिम् ॥ २० ॥
यस्यार्धवर्ष्मलाभा-
-देवाभूत् सर्वमङ्गला गिरिजा ।
यमिवरहृदब्जनिलयं
तमहं प्रणमामि दक्षिणामूर्तिम् ॥ २१ ॥
छत्रीभूतवटागं
छन्नमविद्याऽऽख्यवाससानादिम् ।
छत्रादिनृपविभूतिद-
-मनिशं प्रणमामि दक्षिणामूर्तिम् ॥ २२ ॥
स्वाहास्वधानिषेव्यं
स्वाकृतिसन्तोषितागजाहृदयम् ।
स्वाहासहायतिलकं
सततं प्रणमामि दक्षिणामूर्तिम् ॥ २३ ॥
हासाधरीकृतविधुं
हालाहलशोभमानगलदेशम् ।
हारायिताहिराजं
सततं प्रणमामि दक्षिणामूर्तिम् ॥ २४ ॥
श्रीमन्नृसिंहयतिरा-
-ट्छिष्यः श्रीसच्चिदानन्दः ।
अकरोद्गुरुवरकृपया
स्तोत्रं श्रीदक्षिणामूर्तेः ॥ २५ ॥
मनुवर्णघटितमेतत्
स्तोत्रं यः पठति भक्तिसम्युक्तः ।
तस्मै वटतटवासी
दद्यात् सकलाः कलास्त्वरितम् ॥ २६ ॥
इति श्रीजगद्गुरु श्रीसच्चिदानन्द शिवाभिनव नृसिंह भारती स्वामिभिः विरचितं श्री दक्षिणामूर्तिमनु सुवर्णमाला स्तोत्रम् ।
