Read in: తెలుగు | ಕನ್ನಡ | தமிழ் | देवनागरी | English | മലയാളം | ગુજરાતી | मराठी |

Sri Dakshinamurthy Stotram 2 – श्री दक्षिणामूर्ति स्तोत्रम् – २

P Madhav Kumar
ओं नमः प्रणवार्थाय शुद्धज्ञानैकमूर्तये ।
निर्मलाय प्रशान्ताय दक्षिणामूर्तये नमः ॥ १ ॥

ईश्वरो गुरुरात्मेति मूर्तिभेदविभागिने ।
व्योमवद्व्याप्तदेहाय दक्षिणामूर्तये नमः ॥ २ ॥

श्रीकैलासनिवासाय बालशीतांशुमौलये ।
मुनिभिः सेव्यमानाय दक्षिणामूर्तये नमः ॥ ३ ॥

सर्वज्ञाय त्रिणेत्राय शङ्कराय कपर्दिने ।
गङ्गाधराय शर्वाय दक्षिणामूर्तये नमः ॥ ४ ॥

प्रविलम्बित रुक्माभ जटामण्डलधारिणे ।
मुक्तायज्ञोपवीताय दक्षिणामूर्तये नमः ॥ ५ ॥

विन्यस्तसव्यगुल्फाय दक्षिणोरुपदेशके ।
नासाग्रन्यस्तनेत्राय दक्षिणामूर्तये नमः ॥ ६ ॥

स्निग्धकल्माषकर्षाय कारुण्यामृतसिन्धवे ।
स्मृतिमात्राघनाशाय दक्षिणामूर्तये नमः ॥ ७ ॥

कलशं चाक्षमालां च ज्ञानमुद्रां च पुस्तकम् ।
करैश्चतुर्भिर्दधते दक्षिणामूर्तये नमः ॥ ८ ॥

चिद्घनाय महेशाय वटमूलनिवासिने ।
सच्चिदानन्दरूपाय दक्षिणामूर्तये नमः ॥ ९ ॥

गुरवे सर्वलोकानां भिषजे भवरोगिणाम् ।
निधये सर्वविद्यानां श्रीदक्षिणामूर्तये नमः ॥ १० ॥

इति श्रीशङ्कराचार्य विरचितं श्री दक्षिणामूर्ति स्तोत्रम् ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!
📢 Follow