Read in: తెలుగు | ಕನ್ನಡ | தமிழ் | देवनागरी | English | മലയാളം | ગુજરાતી | मराठी |

Sri Dakshinasya Pancharatna Stotram – श्री दक्षिणास्य पञ्चरत्न स्तोत्रम्

P Madhav Kumar
पुरा माययापीडितं दर्पयुक्तं
महाधर्मरूपं त्रिषं तस्य भागे ।
शिखाबन्धनात्केशमेकं निधाय
मुदा पालितं भावये दक्षिणास्यम् ॥ १ ॥

सदा यक्षगन्धर्वविद्याधराद्यैः
गणैः सेवितं तैः परिभ्राजमानम् ।
महासूक्ष्मतात्पर्यबोधं महेशं
परानन्ददं भावये दक्षिणास्यम् ॥ २ ॥

पुराकेकरूपार्तगौरीहृदब्जे
मुदानर्तनीयस्यमायूरशस्य ।
सदा दर्शनात् पूत रूपाप्तनद्याः
सुवामेविषं भावये दक्षिणास्यम् ॥ ३ ॥

तुलामासदर्शं गते पुणकाले
शुचौ सप्तनद्यः शिवं भावितास्थाः ।
कवेरेजयापूतनास्ता भवन्ति
तथा वन्दितं भावये दक्षिणास्यम् ॥ ४ ॥

वदान्यस्य देवस्य भागे निविष्टं
पदाम्भोजभाजस्य भूतिप्रदानम् ।
मुदा बालकानां तु वाणी प्रदानं
सदानन्ददं भावये दक्षिणास्यम् ॥ ५ ॥

इति श्री दक्षिणास्य पञ्चरत्न स्तोत्रम् ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!
📢 Follow