ध्यानम् –
भस्मं व्यापाण्डुराङ्ग शशिशकलधरो ज्ञानमुद्राक्षमाला ।
वीणापुस्तेर्विराजत्करकमलधरो लोकपट्टाभिरामः ॥
व्याख्यापीठेनिषण्णा मुनिवरनिकरैस्सेव्यमान प्रसन्नः ।
सव्यालकृत्तिवासास्सततमवतु नो दक्षिणामूर्तिमीशः ॥
मूलमन्त्रः –
ओं नमो भगवते दक्षिणामूर्तये मह्यं मेधां प्रज्ञां प्रयच्छ स्वाहा ॥
ओं शान्तिः शान्तिः शान्तिः ॥
