वदान्याय वरेण्याय वामदेवाय मङ्गलम् ॥ १ ॥
वल्लीशविघ्नराजाभ्यां वन्दिताय वरीयसे ।
विश्वार्तिहरणायाऽस्तु विश्वनाथाय मङ्गलम् ॥ २ ॥
कल्याणवरदानाय करुणानिधये कलौ ।
कमलापतिकान्ताय कल्परूपाय मङ्गलम् ॥ ३ ॥
सर्वारिष्टविनाशाय सर्वाभीष्टप्रदायिने ।
सर्वमङ्गलरूपाय सद्योजाताय मङ्गलम् ॥ ४ ॥
ईतिभीतिनिवाराय चेतिहासाऽभिवादिने ।
ईषणात्रयहाराय चेशानोर्ध्वाय मङ्गलम् ॥ ५ ॥
अतिसौम्याऽतिरुद्राय अविरुद्धाय शूलिने ।
अमलाय महेशाय अघोरेशाय मङ्गलम् ॥ ६ ॥
दूर्वासादिप्रपूज्याय दुष्टनिग्रहकारिणे ।
दूरीकृताय दुःखानां धूलिधाराय मङ्गलम् ॥ ७ ॥
हृदयाम्बुजवासाय हराय परमात्मने ।
हरिकेशाय हृद्याय हंसरूपाय मङ्गलम् ॥ ८ ॥
ककुद्वाहाय कल्पाय कल्पितानेकभूतिने ।
कमलालयवासाय करुणाक्षाय मङ्गलम् ॥ ९ ॥
नकाराय नटेशाय नन्दिविद्याविधायिने ।
नदीचन्द्रजटेशाय नादरूपाय मङ्गलम् ॥ १० ॥
मकाराय महेशाय मन्दहासेनभासिने ।
महनीय मनोरम्य माननीयाय मङ्गलम् ॥ ११ ॥
शिवाय शक्तिनाथाय सच्चिदानन्दरूपिणे ।
सुलभाय सुशीलाय शिकाराद्याय मङ्गलम् ॥ १२ ॥
वसिष्ठादिभिरर्च्याय विशिष्टाचारवर्तिने ।
विष्णुब्रह्मादिवन्द्याय वकाराख्याय मङ्गलम् ॥ १३ ॥
यतिसेव्याय याम्याय यज्ञसाद्गुण्यदायिने ।
यज्ञेशाय यमान्ताय यकारान्ताय मङ्गलम् ॥ १४ ॥
अरुणाचलपूज्याय तरुणारुणभासिने ।
कलिकल्मषनाशाय मङ्गलं गुरुमूर्तये ॥ १५ ॥
गुरुमूर्तेरिदं स्तोत्रं सुप्रभाताभिदं शुभम् ।
पठतां श्रीरवाप्नोति भुक्तिमुक्तिप्रदेरिता ॥ १६ ॥
इति श्री गुरुमूर्ति मङ्गल स्तोत्रम् ॥
