Read in: తెలుగు | ಕನ್ನಡ | தமிழ் | देवनागरी | English | മലയാളം | ગુજરાતી | मराठी |

Sri Gurumurthy Stotram – श्री गुरुमूर्ति स्तोत्रम्

P Madhav Kumar
शिवमद्भुतकीर्तिधरं वरदं
शुभमङ्गलपुण्यपराक्रमदम् ।
करुणाजलधिं कमनीयनुतं
गुरुमूर्तिमहं सततं कलये ॥ १ ॥

बहुदैत्यविनाशकरं भगदं
बहुकालसुखावहदानवरम् ।
बलबुद्धियशोधनधान्यगतं
गुरुमूर्तिमहं सततं कलये ॥ २ ॥

परमं पुरुषं पशुपाशहरं
परयोन्मनया परितोविहितम् ।
फलदं बलदं भजतां तु हि तं
गुरुमूर्तिमहं सततं कलये ॥ ३ ॥

करपल्लवसल्ललिताऽभयदं
गुरुराजवरं गुहमन्त्रगतम् ।
सततं शिवदं सनकादियुतं
गुरुमूर्तिमहं सततं कलये ॥ ४ ॥

ससुतं सवृषं सुलभासनकं
सलिलान्वितचन्द्रकलाकलितम् ।
विमलं कमलासनसन्निहितं
गुरुमूर्तिमहं सततं कलये ॥ ५ ॥

अरुणाचलमीशमभीष्टवरं
करुणार्णवपूरितलोचनकम् ।
तरुणारुणशोभितगात्रममुं
गुरुमूर्तिमहं सततं कलये ॥ ६ ॥


वटदारुवनेवसिनं शशिनं
जटयाधरमादिमनीशमजम् ।
पटुरायतभारतिवाक्यगतं
गुरुमूर्तिमहं सततं कलये ॥ ७ ॥

तपसाह्वयितं तपसां बलदं
तपनोडुपवह्निकलानयनम् ।
कुपितान्तकमादिमनाकुलदं
गुरुमूर्तिमहं सततं कलये ॥ ८ ॥

रजताचलमध्यवसं भसितो-
-ल्लसितं भवरोगसुभेषजकम् ।
भसितीकृतमन्मथमीतिहरं
गुरुमूर्तिमहं सततं कलये ॥ ९ ॥

परमेश्वरमम्बिकयासहितं
हरिपद्मजसन्नुतपादयुगम् ।
परमाद्भुतमोदकरं तनुतां
गुरुमूर्तिमहं सततं कलये ॥ १० ॥

इति श्री गुरुमूर्ति स्तोत्रम् ॥

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Ok, Go it!
📢 Follow