देवदेव महाबाहो भक्तानां सुखवर्धन ।
केन सिद्धिं ददात्याशु काली त्रैलोक्यमोहन ॥ १ ॥
तन्मे वद दयाऽऽधार साधकाभीष्टसिद्धये ।
कृपां कुरु जगन्नाथ वद वेदविदां वर ॥ २ ॥
श्रीभैरव उवाच ।
गोपनीयं प्रयत्नेन तत्त्वात् तत्त्वं परात्परम् ।
एष सिद्धिकरः सम्यक् किमथो कथयाम्यहम् ॥ ३ ॥
महाकालमहं वन्दे सर्वसिद्धिप्रदायकम् ।
देवदानवगन्धर्वकिन्नरपरिसेवितम् ॥ ४ ॥
कवचं तत्त्वदेवस्य पठनाद्घोरदर्शने ।
सत्यं भवति सान्निध्यं कवचस्तवनान्तरात् ॥ ५ ॥
सिद्धिं ददाति सा तुष्टा कृत्वा कवचमुत्तमम् ।
साम्राज्यत्वं प्रियं दत्त्वा पुत्रवत् परिपालयेत् ॥ ६ ॥
कवचस्य ऋषिर्देवी कालिका दक्षिणा तथा ।
विराट्छन्दः सुविज्ञेयं महाकालस्तु देवता ।
कालिका साधने चैव विनियोगः प्रकीर्तितः ॥ ७ ॥
श्मशानस्थो महारुद्रो महाकालो दिगम्बरः ।
कपालकर्तृका वामे शूलं खट्वाङ्गं दक्षिणे ॥ ८ ॥
भुजङ्गभूषिते देवि भस्मास्थिमणिमण्डितः ।
ज्वलत्पावकमध्यस्थो भस्मशय्याव्यवस्थितः ॥ ९ ॥
विपरीतरतां तत्र कालिकां हृदयोपरि ।
पेयं खाद्यं च चोष्यं च तौ कृत्वा तु परस्परम् ।
एवं भक्त्या यजेद्देवं सर्वसिद्धिः प्रजायते ॥ १० ॥
प्रणवं पूर्वमुच्चार्य महाकालाय तत्पदम् ।
नमः पातु महामन्त्रः सर्वशास्त्रार्थपारगः ॥ ११ ॥
अष्टाक्षरो महामन्त्रः सर्वाशापरिपूरकः ।
सर्वपापक्षयं याति ग्रहणे भक्तवत्सले ॥ १२ ॥
कूर्चद्वन्द्वं महाकाल प्रसीदेति पदद्वयम् ।
लज्जायुग्मं वह्निजाया स तु राजेश्वरो महान् ॥ १३ ॥
मन्त्रग्रहणमात्रेण भवेत् सत्यं महाकविः ।
गद्यपद्यमयी वाणी गङ्गानिर्झरिता तथा ॥ १४ ॥
तस्य नाम तु देवेशि देवा गायन्ति भावुकाः ।
शक्तिबीजद्वयं दत्वा कूर्चं स्यात् तदनन्तरम् ॥ १५ ॥
महाकालपदं दत्वा मायाबीजयुगं तथा ।
कूर्चमेकं समुद्धृत्य महामन्त्रो दशाक्षरः ॥ १६ ॥
राजस्थाने दुर्गमे च पातु मां सर्वतो मुदा ।
वेदादिबीजमादाय भगमान् तदनन्तरम् ॥ १७ ॥
महाकालाय सम्प्रोच्य कूर्चं दत्वा च ठद्वयम् ।
ह्रीङ्कारपूर्वमुद्धृत्य वेदादिस्तदनन्तरम् ॥ १८ ॥
महाकालस्यान्तभागे स्वाहान्तमनुमुत्तमम् ।
धनं पुत्रं सदा पातु बन्धुदारानिकेतनम् ॥ १९ ॥
पिङ्गलाक्षो मञ्जुयुद्धे युद्धे नित्यं जयप्रदः ।
सम्भाव्यः सर्वदुष्टघ्नः पातु स्वस्थानवल्लभः ॥ २० ॥
इति ते कथितं तुभ्यं देवानामपि दुर्लभम् ।
अनेन पठनाद्देवि विघ्ननाशो यथा भवेत् ॥ २१ ॥
सम्पूजकः शुचिस्नातः भक्तियुक्तः समाहितः ।
सर्वव्याधिविनिर्मुक्तः वैरिमध्ये विशेषतः ॥ २२ ॥
महाभीमः सदा पातु सर्वस्थानेषु वल्लभम् ।
कालीपार्श्वस्थितो देवः सर्वदा पातु मे मुखे ॥ २३ ॥
फलश्रुति –
पठनात् कालिकादेवी पठेत् कवचमुत्तमम् ।
श्रुणुयाद्वा प्रयत्नेन सदाऽऽनन्दमयो भवेत् ॥ १ ॥
श्रद्धयाऽश्रद्धया वापि पठनात् कवचस्य यत् ।
सर्वसिद्धिमवाप्नोति यद्यन्मनसि वर्तते ॥ २ ॥
बिल्वमूले पठेद्यस्तु पठनात्कवचस्य यत् ।
त्रिसन्ध्यं पठनाद्देवि भवेन्नित्यं महाकविः ॥ ३ ॥
कुमारीं पूजयित्वा तु यः पठेद्भावतत्परः ।
न किञ्चिद्दुर्लभं तस्य दिवि वा भुवि मोदते ॥ ४ ॥
दुर्भिक्षे राजपीडायां ग्रामे वा वैरिमध्यके ।
यत्र यत्र भयं प्राप्तः सर्वत्र प्रपठेन्नरः ॥ ५ ॥
तत्र तत्राभयं तस्य भवत्येव न संशयः ।
वामपार्श्वे समानीय शोभितां वरकामिनीम् ॥ ६ ॥
श्रद्धयाऽश्रद्धया वापि पठनात् कवचस्य तु ।
प्रयत्नतः पठेद्यस्तु तस्य सिद्धिः करे स्थिता ॥ ७ ॥
इदं कवचमज्ञात्वा कालं यो भजते नरः ।
नैव सिद्धिर्भवेत्तस्य विघ्नस्तस्य पदे पदे ।
आदौ वर्म पठित्वा तु तस्य सिद्धिर्भविष्यति ॥ ८ ॥
इति रुद्रयामले महातन्त्रे श्री महाकालभैरव कवचम् ॥
