स्कन्द उवाच ।
नमस्ते योगरूपाय सम्प्रज्ञानशरीरिणे ।
असम्प्रज्ञानमूर्ध्ने ते तयोर्योगमयाय च ॥ १ ॥
वामाङ्गभ्रान्तिरूपा ते सिद्धिः सर्वप्रदा प्रभो ।
भ्रान्तिधारकरूपा वै बुद्धिस्ते दक्षिणाङ्गके ॥ २ ॥
मायासिद्धिस्तथा देवो मायिको बुद्धिसञ्ज्ञितः ।
तयोर्योगे गणेशान त्वं स्थितोऽसि नमोऽस्तु ते ॥ ३ ॥
जगद्रूपो गकारश्च णकारो ब्रह्मवाचकः ।
तयोर्योगे हि गणपो नाम तुभ्यं नमो नमः ॥ ४ ॥
चतुर्विधं जगत्सर्वं ब्रह्म तत्र तदात्मकम् ।
हस्ताश्चत्वार एवं ते चतुर्भुज नमोऽस्तु ते ॥ ५ ॥
स्वसंवेद्यं च यद्ब्रह्म तत्र खेलकरो भवान् ।
तेन स्वानन्दवासी त्वं स्वानन्दपतये नमः ॥ ६ ॥
द्वन्द्वं चरसि भक्तानां तेषां हृदि समास्थितः ।
चौरवत्तेन तेऽभूद्वै मूषको वाहनं प्रभो ॥ ७ ॥
जगति ब्रह्मणि स्थित्वा भोगान्भुङ्क्षि स्वयोगगः ।
जगद्भिर्ब्रह्मभिस्तेन चेष्टितं ज्ञायते न च ॥ ८ ॥
चौरवद्भोगकर्ता त्वं तेन ते वाहनं परम् ।
मूषको मूषकारूढो हेरम्बाय नमो नमः ॥ ९ ॥
किं स्तौमि त्वां गणाधीश योगशान्तिधरं परम् ।
वेदादयो ययुः शान्तिमतो देवं नमाम्यहम् ॥ १० ॥
इति स्तोत्रं समाकर्ण्य गणेशस्तमुवाच ह ।
वरं वृणु महाभाग दास्यामि दुर्लभं ह्यपि ॥ ११ ॥
त्वया कृतमिदं स्तोत्रं योगशान्तिप्रदं भवेत् ।
मयि भक्तिकरं स्कन्द सर्वसिद्धिप्रदं तथा ॥ १२ ॥
यं यमिच्छसि तं तं वै दास्यामि स्तोत्रयन्त्रितः ।
पठते शृण्वते नित्यं कार्तिकेय विशेषतः ॥ १३ ॥
इति श्रीमुद्गलपुराणे मनोरथसिद्धिप्रदं नाम गणेशस्तोत्रं सम्पूर्णम् ।