शिव उवाच ।
गणेशहृदयं वक्ष्ये सर्वसिद्धिप्रदायकम् ।
साधकाय महाभागाः शीघ्रेण शान्तिदं परम् ॥ १ ॥
अस्य श्रीगणेशहृदयस्तोत्रमन्त्रस्य शम्भुरृषिः । नानाविधानि छन्दांसि । श्रीमत्स्वानन्देशो गणेशो देवता । गमिति बीजम् । ज्ञानात्मिका शक्तिः । नादः कीलकम् ।
श्रीगणपतिप्रीत्यर्थमभीष्टसिद्ध्यर्थं जपे विनियोगः । गां गीमिति न्यासः ।
ध्यानम् ।
सिन्दूराभं त्रिनेत्रं पृथुतरजठरं रक्तवस्त्रावृतं तं
पाशं चैवाङ्कुशं वै रदनमभयदं पाणिभिः सन्दधानम् ॥
सिद्ध्या बुद्ध्या च श्लिष्टं गजवदनमहं चिन्तये ह्येकदन्तं
नानाभूषाभिरामं निजजनसुखदं नाभिशेषं गणेशम् ॥ २ ॥
ओं गणेशमेकदन्तं च चिन्तामणिं विनायकम् ।
ढुण्ढिराजं मयूरेशं लम्बोदरं गजाननम् ॥ १ ॥
हेरम्बं वक्रतुण्डं च ज्येष्ठराजं निजस्थितम् ।
आशापूरं तु वरदं विकटं धरणीधरम् ॥ २ ॥
सिद्धिबुद्धिपतिं वन्दे ब्रह्मणस्पतिसञ्ज्ञितम् ।
माङ्गल्येशं सर्वपूज्यं विघ्नानां नायकं परम् ॥ ३ ॥
एकविंशति नामानि गणेशस्य महात्मनः ।
अर्थेन सम्यूतान्येव हृदयं परिकीर्तितम् ॥ ४ ॥
गकाररूपं विविधं चराचरं
णकारगं ब्रह्म तथा परात्परम् ।
तयोः स्थितास्तस्य गणाः प्रकीर्तिता
गणेशमेकं प्रणमाम्यहं परम् ॥ ५ ॥
मायास्वरूपं तु सदैकवाचकं
दन्तः परो मायिकरूपधारकः ।
योगे तयोरेकरदं सुमानिनि
धीस्थं नतोऽहं जनभक्तिलालसम् ॥ ६ ॥
चित्तप्रकाशं विविधेषु संस्थं
लेपावलेपादिविवर्जितं च ।
भोगैर्विहीनं त्वथ भोगकारकं
चिन्तामणिं तं प्रणमामि नित्यम् ॥ ७ ॥
विनायकं नायकवर्जितं प्रिये
विशेषतो नायकमीश्वरात्मनाम् ।
निरङ्कुशं तं प्रणमामि सर्वदं
सदात्मकं भावयुतेन चेतसा ॥ ८ ॥
वेदाः पुराणानि महेश्वरादिकाः
शास्त्राणि योगीश्वरदेवमानवाः ।
नागासुरा ब्रह्मगणाश्च जन्तवो
ढुण्ढन्ति वन्दे त्वथ ढुण्ढिराजकम् ॥ ९ ॥
मायार्थवाच्यो मयूरप्रभावो
नानाभ्रमार्थं प्रकरोति तेन ।
तस्मान्मयूरेशमथो वदन्ति
नमामि मायापतिमासमन्तात् ॥ १० ॥
यस्योदराद्विश्वमिदं प्रसूतं
ब्रह्माणि तद्वज्जठरे स्थितानि ।
आनन्त्यरूपं जठरं हि यस्य
लम्बोदरं तं प्रणतोऽस्मि नित्यम् ॥ ११ ॥
जगद्गलाधो गणनायकस्य
गजात्मकं ब्रह्म शिरः परेशम् ।
तयोश्च योगे प्रवदन्ति सर्वे
गजाननं तं प्रणमामि नित्यम् ॥ १२ ॥
दीनार्थवाच्यस्त्वथ हेर्जगच्च
ब्रह्मार्थवाच्यो निगमेषु रम्बः ।
तत्पालकत्वाच्च तयोः प्रयोगे
हेरम्बमेकं प्रणमामि नित्यम् ॥ १३ ॥
विश्वात्मकं यस्य शरीरमेकं
तस्माच्च वक्त्रं परमात्मरूपम् ।
तुण्डं तदेवं हि तयोः प्रयोगे
तं वक्रतुण्डं प्रणमामि नित्यम् ॥ १४ ॥
मातापिताऽयं जगतां परेषां
तस्यापि माताजनकादिकं न ।
श्रेष्ठं वदन्ति निगमाः परेशं
तं ज्येष्ठराजं प्रणमामि नित्यम् ॥ १५ ॥
नाना चतुःस्थं विविधात्मकेन
सम्योगरूपेण निजस्वरूपम् ।
पूर्यस्य सा पूर्णसमाधिरूपा
स्वानन्दनाथं प्रणमामि चातः ॥ १६ ॥
मनोरथान् पूरयतीह गङ्गे
चराचराणां जगतां परेषाम् ।
अतो गणेशं प्रवदन्ति चाशा-
-प्रपूरकं तं प्रणमामि नित्यम् ॥ १७ ॥
वरैः समस्थापितमेव सर्वं
विश्वं तथा ब्रह्मविहारिणा च ।
अतः परं विप्रमुखा वदन्ति
वरप्रदं तं वरदं नतोऽस्मि ॥ १८ ॥
मायामयं सर्वमिदं विभाति
मिथ्यास्वरूपं भ्रमदायकं च ।
तस्मात्परं ब्रह्म वदन्ति सत्य-
-मेनं परेशं विकटं नमामि ॥ १९ ॥
चित्तस्य प्रोक्ता मुनिभिः पृथिव्यो
नानाविधा योगिभिरेव गङ्गे ।
तासां सदा धारक एष वन्दे
चाहं हि धरणीधरमादिभूतम् ॥ २० ॥
विश्वात्मिका ब्रह्ममयी हि बुद्धिः
तस्या विमोहप्रदिका च सिद्धिः ।
ताभ्यां सदा खेलति योगनाथः
तं सिद्धिबुद्धीशमथो नमामि ॥ २१ ॥
असत्यसत्साम्यतुरीयनैज-
-गनिवृत्तिब्रह्माणि विरच्य खेलकः ।
सदा स्वयं योगमयेन भाति
तमानतोऽहं त्वथ ब्रह्मणस्पतिम् ॥ २२ ॥
अमङ्गलं विश्वमिदं सहात्मभिः
अयोगसम्योगयुतं प्रणश्वरम् ।
ततः परं मङ्गलरूपधारकं
नमामि माङ्गल्यपतिं सुशान्तिदम् ॥ २३ ॥
सर्वत्रमान्यं सकलावभासकं
सुज्ञैः शुभादावशुभादिपूजितम् ।
पूज्यं न तस्मान्निगमादिसम्मतं
तं सर्वपूज्यं प्रणतोऽस्मि नित्यम् ॥ २४ ॥
भुक्तिं च मुक्तिं च ददाति तुष्टो
यो विघ्नहा भक्तिप्रियो निजेभ्यः ।
भक्त्या विहीनाय ददाति विघ्नान्
तं विघ्नराजं प्रणमामि नित्यम् ॥ २५ ॥
नामार्थयुक्तं कथितं प्रिये ते
विघ्नेश्वरस्यैव परं रहस्यम् ।
सप्तत्रिनाम्नां हृदयं नरो यो
ज्ञात्वा परं ब्रह्ममयो भवेदिह ॥ २६ ॥
इति श्रीमुद्गलपुराणे गणेशहृदय स्तोत्रम् ॥