श्रीदेव्युवाच ।
भगवन् देवदेवेश सर्वज्ञ त्रिपुरान्तक ।
प्राप्ते कलियुगे घोरे महाभूतैः समावृते ॥ १ ॥
महाव्याधि महाव्याल घोरराजैः समावृते ।
दुःस्वप्नशोकसन्तापैः दुर्विनीतैः समावृते ॥ २ ॥
स्वधर्मविरतेमार्गे प्रवृत्ते हृदि सर्वदा ।
तेषां सिद्धिं च मुक्तिं च त्वं मे ब्रूहि वृषध्वज ॥ ३ ॥
ईश्वर उवाच ।
शृणु देवि महाभागे सर्वकल्याणकारणे ।
महाशास्तुश्च देवेशि कवचं पुण्यवर्धनम् ॥ ४ ॥
अग्निस्तम्भ जलस्तम्भ सेनास्तम्भ विधायकम् ।
महाभूतप्रशमनं महाव्याधिनिवारणम् ॥ ५ ॥
महाज्ञानप्रदं पुण्यं विशेषात् कलितापहम् ।
सर्वरक्षाकरं दिव्यमायुरारोग्यवर्धनम् ॥ ६ ॥
किमतो बहुनोक्तेन यं यं कामयते द्विजः ।
तं तमाप्नोत्यसन्देहो महाशास्तुः प्रसादतः ॥ ७ ॥
कवचस्य ऋषिर्ब्रह्मा गायत्रीश्छन्द उच्यते ।
देवता श्रीमहाशास्ता देवो हरिहरात्मजः ॥ ८ ॥
षडङ्गमाचरेद्भक्त्या मात्रया जातियुक्तया ।
ध्यानमस्य प्रवक्ष्यामि शृणुष्वावहिता प्रिये ॥ ९ ॥
अस्य श्रीमहाशास्तुः कवचस्तोत्र महामन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, महाशास्ता देवता, ह्रां बीजं, ह्रीं शक्तिः, ह्रूं कीलकं, श्रीमहाशास्तुः प्रसाद सिद्ध्यर्थे जपे विनियोगः ॥
ह्रामित्यादि षडङ्गन्यासः ॥
अथ ध्यानम् ।
तेजोमण्डलमध्यगं त्रिनयनं दिव्याम्बरालङ्कृतं
देवं पुष्पशरेक्षुकार्मुकलसन्माणिक्यपात्राऽभयम् ।
बिभ्राणं करपङ्कजे मदगजस्कन्धाधिरूढं विभुं
शास्तारं शरणं व्रजामि सततं त्रैलोक्यसम्मोहनम् ॥
अथ कवचम् ।
महाशास्ता शिरः पातु फालं हरिहरात्मजः ।
कामरूपी दृशौ पातु सर्वज्ञो मे श्रुती सदा ॥ १ ॥
घ्राणं पातु कृपाध्यक्षो मुखं गौरीप्रियः सदा ।
वेदाध्यायी च मे जिह्वां पातु मे चिबुकं गुरुः ॥ २ ॥
कण्ठं पातु विशुद्धात्मा स्कन्धौ पातु सुरार्चितः ।
बाहू पातु विरूपाक्षः करौ तु कमलाप्रियः ॥ ३ ॥
भूताधिपो मे हृदयं मध्यं पातु महाबलः ।
नाभिं पातु महावीरः कमलाक्षोऽवतात्कटिम् ॥ ४ ॥
अपानं पातु विश्वात्मा गुह्यं गुह्यार्थवित्तमः ।
ऊरू पातु गजारूढो वज्रधारी च जानुनी ॥ ५ ॥
जङ्घे पात्वङ्कुशधरः पादौ पातु महामतिः ।
सर्वाङ्गं पातु मे नित्यं महामायाविशारदः ॥ ६ ॥
इतीदं कवचं पुण्यं सर्वाघौघनिकृन्तनम् ।
महाव्याधिप्रशमनं महापातकनाशनम् ॥ ७ ॥
ज्ञानवैराग्यदं दिव्यमणिमादिविभूषितम् ।
आयुरारोग्यजननं महावश्यकरं परम् ॥ ८ ॥
यं यं कामयते कामं तं तं प्राप्नोत्यसंशयः ।
त्रिसन्ध्यं यः पठेद्विद्वान् स याति परमां गतिम् ॥ ९ ॥
इति श्री महाशास्ता अनुग्रह कवचम् ।