गणेशं नमस्कृत्य गौरीकुमारं
गजास्यं गुहस्याग्रजातं गभीरम् ।
प्रलम्बोदरं शूर्पकर्णं त्रिणेत्रं
प्रवक्ष्ये भुजङ्गप्रयातं गुहस्य ॥ १ ॥
पृथक्षट्किरीट स्फुरद्दिव्यरत्न-
-प्रभाक्षिप्तमार्ताण्डकोटिप्रकाशम् ।
चलत्कुण्डलोद्यत्सुगण्डस्थलान्तं
महानर्घहारोज्ज्वलत्कम्बुकण्ठम् ॥ २ ॥
शरत्पूर्णचन्द्रप्रभाचारुवक्त्रं
विराजल्ललाटं कृपापूर्णनेत्रम् ।
लसद्भ्रूसुनासापुटं विद्रुमोष्ठं
सुदन्तावलिं सुस्मितं प्रेमपूर्णम् ॥ ३ ॥
द्विषड्बाहुदण्डाग्रदेदीप्यमानं
क्वणत्कङ्कणालङ्कृतोदारहस्तम् ।
लसन्मुद्रिकारत्नराजत्कराग्रं
क्वणत्किङ्किणीरम्यकाञ्चीकलापम् ॥ ४ ॥
विशालोदरं विस्फुरत्पूर्णकुक्षिं
कटौ स्वर्णसूत्रं तटिद्वर्णगात्रम् ।
सुलावण्यनाभीसरस्तीरराज-
-त्सुशैवालरोमावलीरोचमानम् ॥ ५ ॥
सुकल्लोलवीचीवलीरोचमानं
लसन्मध्यसुस्निग्धवासो वसानम् ।
स्फुरच्चारुदिव्योरुजङ्घासुगुल्फं
विकस्वत्पदाब्जं नखेन्दुप्रभाढ्यम् ॥ ६ ॥
द्विषट्पङ्कजाक्षं महाशक्तियुक्तं
त्रिलोकप्रशस्तं सुशिक्के पुरस्थम् ।
प्रपन्नार्तिनाशं प्रसन्नं फणीशं
परब्रह्मरूपं प्रकाशं परेशम् ॥ ७ ॥
कुमारं वरेण्यं शरण्यं सुपुण्यं
सुलावण्यपण्यं सुरेशानुवर्ण्यम् ।
लसत्पूर्णकारुण्यलक्ष्मीशगण्यं
सुकारुण्यमार्याग्रगण्यं नमामि ॥ ८ ॥
स्फुरद्रत्नपीठोपरि भ्राजमानं
हृदम्भोजमध्ये महासन्निधानम् ।
समावृत्तजानुप्रभाशोभमानं
सुरैः सेव्यमानं भजे बर्हियानम् ॥ ९ ॥
ज्वलच्चारुचामीकरादर्शपूर्णं
चलच्चामरच्छत्रचित्रध्वजाढ्यम् ।
सुवर्णामलान्दोलिकामध्यसंस्थं
महाहीन्द्ररूपं भजे सुप्रतापम् ॥ १० ॥
धनुर्बाणचक्राभयं वज्रखेटं
त्रिशूलासिपाशाङ्कुशाभीतिशङ्खम् ।
ज्वलत्कुक्कुटं प्रोल्लसद्द्वादशाक्षं
प्रशस्तायुधं षण्मुखं तं भजेऽहम् ॥ ११ ॥
स्फुरच्चारुगण्डं द्विषड्बाहुदण्डं
श्रितामर्त्यषण्डं सुसम्पत्करण्डम् ।
द्विषद्वंशखण्डं सदा दानशौण्डं
भवप्रेमपिण्डं भजे सुप्रचण्डम् ॥ १२ ॥
सदा दीनपक्षं सुरद्विड्विपक्षं
सुमृष्टान्नभक्ष्यप्रदानैकदक्षम् ।
श्रितामर्त्यवृक्षं महादैत्यशिक्षं
बहुक्षीणपक्षं भजे द्वादशाक्षम् ॥ १३ ॥
त्रिमूर्तिस्वरूपं त्रयीसत्कलापं
त्रिलोकाधिनाथं त्रिणेत्रात्मजातम् ।
त्रिशक्त्या प्रयुक्तं सुपुण्यप्रशस्तं
त्रिकालज्ञमिष्टार्थदं तं भजेऽहम् ॥ १४ ॥
विराजद्भुजङ्गं विशालोत्तमाङ्गं
विशुद्धात्मसङ्गं विवृद्धप्रसङ्गम् ।
विचिन्त्यं शुभाङ्गं विकृत्तासुराङ्गं
भवव्याधिभङ्गं भजे कुक्कलिङ्गम् ॥ १५ ॥
गुह स्कन्द गाङ्गेय गौरीसुतेश-
-प्रिय क्रौञ्चभित्तारकारे सुरेश ।
मयूरासनाशेषदोषप्रणाश
प्रसीद प्रसीद प्रभो चित्प्रकाश ॥ १६ ॥
लपन् देवसेनेश भूतेश शेष-
-स्वरूपाग्निभूः कार्तिकेयान्नदातः ।
यदेत्थं स्मरिष्यामि भक्त्या भवन्तं
तदा मे षडास्य प्रसीद प्रसीद ॥ १७ ॥
भुजे शौर्यधैर्यं करे दानधर्मः
कटाक्षेऽतिशान्तिः षडास्येषु हास्यम् ।
हृदब्जे दया यस्य तं देवमन्यं
कुमारान्न जाने न जाने न जाने ॥ १८ ॥
महीनिर्जरेशान्महानृत्यतोषात्
विहङ्गाधिरूढाद्बिलान्तर्विगूढात् ।
महेशात्मजातान्महाभोगिनाथा-
-द्गुहाद्दैवमन्यन्न मन्ये न मन्ये ॥ १९ ॥
सुरोत्तुङ्गशृङ्गारसङ्गीतपूर्ण-
-प्रसङ्गप्रियासङ्गसम्मोहनाङ्ग ।
भुजङ्गेश भूतेश भृङ्गेश तुभ्यं
नमः कुक्कलिङ्गाय तस्मै नमस्ते ॥ २० ॥
नमः कालकण्ठप्ररूढाय तस्मै
नमो नीलकण्ठाधिरूढाय तस्मै ।
नमः प्रोल्लसच्चारुचूडाय तस्मै
नमो दिव्यरूपाय शान्ताय तस्मै ॥ २१ ॥
नमस्ते नमः पार्वतीनन्दनाय
स्फुरच्चित्रबर्हीकृतस्यन्दनाय ।
नमश्चर्चिताङ्गोज्ज्वलच्चन्दनाय
प्रविच्छेदितप्राणभृद्बन्धनाय ॥ २२ ॥
नमस्ते नमस्ते जगत्पावनात्त-
-स्वरूपाय तस्मै जगज्जीवनाय ।
नमस्ते नमस्ते जगद्वन्दिताय
ह्यरूपाय तस्मै जगन्मोहनाय ॥ २३ ॥
नमस्ते नमस्ते नमः क्रौञ्चभेत्त्रे
नमस्ते नमस्ते नमो विश्वकर्त्रे ।
नमस्ते नमस्ते नमो विश्वगोप्त्रे
नमस्ते नमस्ते नमो विश्वहन्त्रे ॥ २४ ॥
नमस्ते नमस्ते नमो विश्वभर्त्रे
नमस्ते नमस्ते नमो विश्वधात्रे ।
नमस्ते नमस्ते नमो विश्वनेत्रे
नमस्ते नमस्ते नमो विश्वशास्त्रे ॥ २५ ॥
नमस्ते नमः शेषरूपाय तुभ्यं
नमस्ते नमो दिव्यचापाय तुभ्यम् ।
नमस्ते नमः सत्प्रतापाय तुभ्यं
नमस्ते नमः सत्कलापाय तुभ्यम् ॥ २६ ॥
नमस्ते नमः सत्किरीटाय तुभ्यं
नमस्ते नमः स्वर्णपीठाय तुभ्यम् ।
नमस्ते नमः सल्ललाटाय तुभ्यं
नमस्ते नमो दिव्यरूपाय तुभ्यम् ॥ २७ ॥
नमस्ते नमो लोकरक्षाय तुभ्यं
नमस्ते नमो दीनरक्षाय तुभ्यम् ।
नमस्ते नमो दैत्यशिक्षाय तुभ्यं
नमस्ते नमो द्वादशाक्षाय तुभ्यम् ॥ २८ ॥
भुजङ्गाकृते त्वत्प्रियार्थं मयेदं
भुजङ्गप्रयातेन वृत्तेन क्लप्तम् ।
तव स्तोत्रमेतत्पवित्रं सुपुण्यं
परानन्दसन्दोहसंवर्धनाय ॥ २९ ॥
त्वदन्यत्परं दैवतं नाभिजाने
प्रभो पाहि सम्पूर्णदृष्ट्यानुगृह्य ।
यथाशक्ति भक्त्या कृतं स्तोत्रमेकं
विभो मेऽपराधं क्षमस्वाखिलेश ॥ ३० ॥
इदं तारकारेर्गुणस्तोत्रराजं
पठन्तस्त्रिकालं प्रपन्ना जना ये ।
सुपुत्राष्टभोगानिह त्वेव भुक्त्वा
लभन्ते तदन्ते परं स्वर्गभोगम् ॥ ३१ ॥
इति श्री सुब्रह्मण्य भुजङ्ग प्रयात स्तोत्रम् ।