ओं ओं ओंकाररूपं हिमकर रुचिरं यत्स्वरूपं तुरीयं
त्रैगुण्यातीतलीलं कलयति मनसा तेजसोदारवृत्तिः ।
योगीन्द्रा ब्रह्मरन्ध्रे सहजगुणमयं श्रीहरेन्द्रं स्वसञ्ज्ञं
गं गं गं गं गणेशं गजमुखमनिशं व्यापकं चिन्तयन्ति ॥ १ ॥
वं वं वं विघ्नराजं भजति निजभुजे दक्षिणे पाणिशुण्डं
क्रों क्रों क्रों क्रोधमुद्रादलितरिपुकुलं कल्पवृक्षस्य मूले ।
दं दं दं दन्तमेकं दधतमभिमुखं कामधेन्वादिसेव्यं
धं धं धं धारयन्तं दधतमतिशयं सिद्धिबुद्धिप्रदं तम् ॥ २ ॥
तुं तुं तुं तुङ्गरूपं गगनमुपगतं व्याप्नुवन्तं दिगन्तं
क्लीं क्लीं क्लीं कामनाथं गलितमददलं लोलमत्तालिमालम् ।
ह्रीं ह्रीं ह्रींकाररूपं सकलमुनिजनैर्ध्येयमुद्दिक्षुदण्डं
श्रीं श्रीं श्रीं संश्रयन्तं निखिलनिधिफलं नौमि हेरम्बलम्बम् ॥ ३ ॥
ग्लौं ग्लौं ग्लौंकारमाद्यं प्रणवमयमहामन्त्रमुक्तावलीनां
सिद्धं विघ्नेशबीजं शशिकरसदृशं योगिनां ध्यानगम्यम् ।
डां डां डां डामरूपं दलितभवभयं सूर्यकोटिप्रकाशं
यं यं यं यक्षराजं जपति मुनिजनो बाह्यमभ्यन्तरं च ॥ ४ ॥
हुं हुं हुं हेमवर्णं श्रुतिगणितगुणं शूर्पकर्णं कृपालुं
ध्येयं यं सूर्यबिम्बे उरसि च विलसत्सर्पयज्ञोपवीतम् ।
स्वाहा हुं फट् समेतैष्ठ ठ ठ ठ सहितैः पल्लवैः सेव्यमानं
मन्त्राणां सप्तकोटिप्रगुणित महिमध्यानमीशं प्रपद्ये ॥ ५ ॥
पूर्वं पीठं त्रिकोणं तदुपरि रुचिरं षड्दलं सूपपत्रं
तस्योर्ध्वं बद्धरेखा वसुदलकमलं बाह्यतोऽधश्च तस्य ।
मध्ये हुङ्कारबीजं तदनु भगवतश्चाङ्गषट्कं षडस्रे
अष्टौ शक्त्यश्च सिद्धिर्वटुगणपतेर्वक्रतुण्डस्य यन्त्रम् ॥ ६ ॥
धर्माद्यष्टौ प्रसिद्धा दिशि विदिशि गणान्बाह्यतो लोकपालान्
मध्ये क्षेत्राधिनाथं मुनिजनतिलकं मन्त्रमुद्रापदेशम् ।
एवं यो भक्तियुक्तो जपति गणपतिं पुष्पधूपाक्षताद्यैः
नैवेद्यैर्मोदकानां स्तुतिनटविलसद्गीतवादित्रनादैः ॥ ७ ॥
राजानस्तस्य भृत्या इव युवतिकुलं दासवत्सर्वदास्ते
लक्ष्मीः सर्वाङ्गयुक्ता त्यजति न सदनं किङ्कराः सर्वलोकाः ।
पुत्राः पौत्राः प्रपौत्रा रणभुवि विजयो द्यूतवादे प्रवीणो
यस्येशो विघ्नराजो निवसति हृदये भक्तिभाजां स देवः ॥ ८ ॥
इति श्रीमच्छङ्कराचार्यकृत वक्रतुण्ड सोत्रम् ।